यद॒श्नासि॒ यत्पि॑बसि धा॒न्यं कृ॒ष्याः पयः॑। यदा॒द्यं यद॑ना॒द्यं सर्वं॑ ते॒ अन्न॑मवि॒षं कृ॑णोमि ॥
पद पाठ
यत् । अश्नासि । यत्। पिबसि । धान्यम् । कृष्या । पय: । यत् । आद्यम् । यत् । अनाद्यम् । सर्वम् । ते । अन्नम् । अविषम् । कृणोमि ॥२.१९॥
अथर्ववेद » काण्ड:8» सूक्त:2» पर्यायः:0» मन्त्र:19
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
कल्याण की प्राप्ति का उपदेश।
पदार्थान्वयभाषाः - [हे मनुष्य !] (यत्) जो तू (कृष्याः) खेती का [उपजा] (धान्यम्) धान्य (अश्नासि) खाता है, और (यत्) जो तू (पयः) दूध वा जल (पिबसि) पीता है। (यत्) चाहे (आद्यम्) पुराना [धरा हुआ], (यत्) चाहे (अनाद्यम्) नवीन [पुराने से भिन्न] हो, (सर्वम्) वह सब (अन्नम्) अन्न (ते) तेरे लिये (अविषम्) निर्विष (कृणोमि) करता हूँ ॥१९॥
भावार्थभाषाः - जो मनुष्य खान-पान विचारपूर्वक करते हैं, वे नीरोग रहते हैं ॥१९॥ सायणाचार्य ने अर्थ किया है−(आद्यम्) खाने योग्य, सुख से भक्षणीय और (अनाद्यम्) न खाने योग्य, कठिन वा अत्यन्त कटु तिक्त द्रव्य ॥
टिप्पणी: १९−(यत्) यत्किञ्चित् (अश्नासि) खादसि (यत्) (पिबसि) (धान्यम्) अन्नम् (कृष्याः) कृषिकर्मणः प्राप्तम् (पयः) दुग्धं जलं वा (यत्) यदि वा (आद्यम्) दिगादिभ्यो यत्। पा० ४।३।५४। आदि-यत्। आदौ भवम्। प्रथमम्। पुराणम्। यद्वा अद भक्षणे-ण्यत्। अदनीयम्। सुखेन भक्षणीयम्-यथा सायणः (यत्) अनाद्यम्-आद्येन प्रथमेन भिन्नम्। नवीनम्। यद्वा अदनानर्हं कठिनद्रव्यम्, अत्यन्तकटुतिक्तत्वाद् वा अनाद्यम्-इति सायणः (सर्वम्) (ते) तुभ्यम् (अन्नम्) जीवनसाधनं भक्षणीयं वा द्रव्यम् (अविषम्) निर्विषम्। नीरोगम् (कृणोमि) करोमि ॥
