शि॒वास्ते॑ स॒न्त्वोष॑धय॒ उत्त्वा॑हार्ष॒मध॑रस्या॒ उत्त॑रां पृथि॒वीम॒भि। तत्र॑ त्वादि॒त्यौ र॑क्षतां सूर्याचन्द्र॒मसा॑वु॒भा ॥
पद पाठ
शिवा: । ते । सन्तु । ओषधय: । उत् । त्वा । अहार्षम् । अधरस्या: । उत्तराम् । पृथिवीम् । अभि । तत्र । त्वा । आदित्यौ । रक्षताम् । सूर्याचन्द्रमसौ । उभा ॥२.१५॥
अथर्ववेद » काण्ड:8» सूक्त:2» पर्यायः:0» मन्त्र:15
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
कल्याण की प्राप्ति का उपदेश।
पदार्थान्वयभाषाः - [हे मनुष्य !] (ते) तेरे लिये (ओषधयः) ओषधें [अन्न आदि] (शिवाः) मङ्गलकारी (सन्तु) होवें, मैंने (त्वा) तुझको (अधरस्याः) नीची [पृथिवी] से (उत्तराम्) ऊँची (पृथिवीम्) अभि) पृथिवी पर (उत् अहार्षम्) उठाया है। (तत्र) वहाँ [ऊँचे स्थान पर] (त्वा) तुझको (उभा) दोनों (आदित्यौ) प्रकाशमान (सूर्याचन्द्रमसौ) सूर्य और चन्द्रमा [के समान नियम] (रक्षताम्) बचावें ॥१५॥
भावार्थभाषाः - मनुष्य अन्न आदि पदार्थों के सुन्दर उपयोग से दिन-दिन अधिक उन्नति करके प्रत्यक्ष सूर्य चन्द्रमा के समान परस्पर पालन करें ॥१५॥
टिप्पणी: १५−(शिवाः) सुखकराः (ते) तुभ्यम् (सन्तु) (ओषधयः) व्रीह्यादयः (उत् अहार्षम्) उद्धृतवानस्मि (त्वा) त्वाम् (अधरस्याः) नीचायाः पृथिव्याः (उत्तराम्) उत्कृष्टाम् (पृथिवीम्) भूमिम् (अभि) प्रति (तत्र) उत्तरस्यां पृथिव्याम् (आदित्यौ) अ० १।९।१। आदीप्यमानौ (रक्षताम्) पालयताम् (सूर्याचन्द्रमसौ) सूर्यचन्द्रौ यथा (उभा) उभौ ॥
