कृ॒णोमि॑ ते प्राणापा॒नौ ज॒रां मृ॒त्युं दी॒र्घमायुः॑ स्व॒स्ति। वै॑वस्व॒तेन॒ प्रहि॑तान्यमदू॒तांश्च॑र॒तोऽप॑ सेधामि॒ सर्वा॑न् ॥
पद पाठ
कृणोमि । ते । प्राणापानौ । जराम् । मृत्युम् । दीर्घम् । आयु: । स्वस्ति । वैवस्वतेन । प्रऽहितान् । यमऽदूतान् । चरत: । अप । सेधामि । सर्वान् ॥२.११॥
अथर्ववेद » काण्ड:8» सूक्त:2» पर्यायः:0» मन्त्र:11
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
कल्याण की प्राप्ति का उपदेश।
पदार्थान्वयभाषाः - [हे मनुष्य !] (ते) तेरे लिये (प्राणापानौ) प्राण और अपान, (जराम्=जरया) स्तुति के साथ (मृत्युम्) मृत्यु [प्राणत्याग], (दीर्घम्) दीर्घ (आयुः) जीवन और (स्वस्ति) कल्याण [अच्छी सत्ता] को (कृणोमि) मैं करता हूँ। (वैवस्वतेन) मनुष्यसम्बन्धी [कर्म] द्वारा (प्रहितान्) भेजे हुए, (चरतः) घूमते हुए (सर्वान्) सब (यमदूतान्) मृत्यु के दूतों को (अप सेधामि) मैं हटाता हूँ ॥११॥
भावार्थभाषाः - ब्रह्मवादी लोग अपनी शारीरिक और आत्मिक दशा सुधारकर सब दरिद्रता, रोग आदि दुःखों को हटाते हैं ॥११॥
टिप्पणी: ११−(कृणोमि) करोमि (ते) तव (प्राणापानौ) शरीरे ऊर्ध्वाधःसंचारिणौ वायू (जराम्) अ० ३।११।७। तृतीयार्थे द्वितीया। जरया स्तुत्या (मृत्युम्) मरणम् (दीर्घम्) लम्बमानम् (आयुः) जीवनम् (स्वस्ति) सुसत्ताम्। क्षेमम् (वैवस्वतेन) अ० ६।११६।१। विवस्वत्-अण्। विवस्वन्तो मनुष्याः-निघ० २।३। मनुष्यसम्बन्धिना कर्मणा (प्रहितान्) प्रेरितान् (यमदूतान्) मृत्युसंदेशहरान्। निर्धनत्वरोगादीन् (चरतः) परिभ्रमतः (अप सेधामि) दूरं गमयामि (सर्वान्) निःशेषान् ॥
