यत्ते॑ नि॒यानं॑ रज॒सं मृत्यो॑ अनवध॒र्ष्यम्। प॒थ इ॒मं तस्मा॒द्रक्ष॑न्तो॒ ब्रह्मा॑स्मै॒ वर्म॑ कृण्मसि ॥
पद पाठ
यत् । ते । निऽयानम् । रजसम् । मृत्यो इति । अनवऽधर्ष्यम् । पथ: । इमम् । तस्मात् । रक्षन्त: । ब्रह्म । अस्मै । वर्म । कृण्मसि ॥२.१०॥
अथर्ववेद » काण्ड:8» सूक्त:2» पर्यायः:0» मन्त्र:10
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
कल्याण की प्राप्ति का उपदेश।
पदार्थान्वयभाषाः - (मृत्यो) हे मृत्यु ! (यत्) जो (ते) तेरा (रजसम्) संसारसम्बन्धी (नियानम्) मार्ग (अनवधर्ष्यम्) अजेय है, (तस्मात्) उस (पथः) मार्ग से (इमम्) इस [पुरुष] को (रक्षन्तः) बचाते हुए हम (अस्मै) इस [पुरुष] के लिये (ब्रह्म) ब्रह्म [वेदविद्या का परमेश्वर] को (वर्म) कवच (कृण्मसि) बनाते हैं ॥१०॥
भावार्थभाषाः - जिस कठिनाई को सामान्य पुरुष नहीं रोक सकते, उसको ब्रह्मवादी जन पार करके मोक्षसुख पाते हैं ॥१०॥
टिप्पणी: १०−(यत्) (ते) तव (नियानम्) निरन्तरगमनम्। मार्गः (रजसम्) अर्शआद्यच्। लोकसंबद्धम् (मृत्यो) (अनवधर्ष्यम्) ऋहलोर्ण्यत्। पा० ३।१।१२४। ञिधृषा प्रागल्भ्ये-ण्यत्। धर्षितुं जेतुमशक्यम्। अजेयम् (पथः) मार्गात् (इमम्) पुरुषम् (तस्मात्) प्रसिद्धात् (रक्षन्तः) पालयन्तः (ब्रह्म) परिवृढं वेदं परमेश्वरं वा (अस्मै) पुरुषाय (वर्म) कवचम् (कृण्मसि) कृण्मः। कुर्मः ॥
