वांछित मन्त्र चुनें

वि॒राड्वा इ॒दमग्र॑ आसी॒त्तस्या॑ जा॒तायाः॒। सर्व॑मबिभेदि॒यमे॒वेदं भ॑वि॒ष्यतीति॑ ॥

मन्त्र उच्चारण
पद पाठ

विऽराट् । वै । इदम् । अग्रे । आसीत् । तस्या: । जाताया: । सर्वम्‌ । अबिभेत् । इयम् । एव । इदम् । भविष्यति । इति ॥१०.१॥

अथर्ववेद » काण्ड:8» सूक्त:10» पर्यायः:1» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्म विद्या का उपदेश।

पदार्थान्वयभाषाः - (विराट्) विराट् [विविध ईश्वरी, ईश्वरशक्ति] (वै) ही (अग्रे) पहिले ही पहिले (इदम्) यह [जगत्] (आसीत्) थी, (तस्याः जातायाः) उस प्रकट हुई से (सर्वम्) सबका सब (अबिभेत्) डरने लगा,(इति) बस, (इयम् एव) यही (इदम्) यह [जगत्] (भविष्यति) हो जायगी ॥१॥
भावार्थभाषाः - सृष्टि से पहिले एक ईश्वरशक्ति थी, जिससे ही होनहार सृष्टि उत्पन्न होने के लिये अनुभव होती थी, उसी का वर्णन अगले मन्त्रों में है ॥१॥
टिप्पणी: १−(विराट्) अ० ८।९।१। विविधेश्वरी। विविधप्रकाशमाना। ईश्वरशक्तिः (वै) एव (इदम्) जगत् (अग्रे) सृष्टेः प्राक् (तस्याः) विराजः सकाशात् (जातायाः) प्रादुर्भूतायाः (सर्वम्) सकलं जगत् (अबिभेत्) भयमगच्छत् (इयम्) विराट् (एव) (इदम्) (भविष्यति) प्राकट्यं प्राप्स्यति (इति) समाप्तौ। पर्य्याप्ते। परामर्शे ॥