वांछित मन्त्र चुनें
225 बार पढ़ा गया

अन्त॑काय मृ॒त्यवे॒ नमः॑ प्रा॒णा अ॑पा॒ना इ॒ह ते॑ रमन्ताम्। इ॒हायम॑स्तु॒ पुरु॑षः स॒हासु॑ना॒ सूर्य॑स्य भा॒गे अ॒मृत॑स्य लो॒के ॥

मन्त्र उच्चारण
पद पाठ

अन्तकाय । मृत्यवे । नम: । प्राणा: । अपाना: । इह । ते । रमन्ताम् । इह । अयम् । अस्तु । पुरुष: । सह । असुना । सूर्यस्य ।भागे । अमृतस्य । लोके ॥१.१॥

अथर्ववेद » काण्ड:8» सूक्त:1» पर्यायः:0» मन्त्र:1


पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - (अन्तकाय) मनोहर करनेवाले [परमेश्वर] को (मृत्यवे) मृत्यु नाश करने के लिये (नमः) नमस्कार है, [हे मनुष्य !] (ते) तेरे (प्राणाः) प्राण और (अपानाः) अपान (इह) इस [परमेश्वर] में (रमन्ताम्) रमे रहें। (इह) इस [जगत्] में (अयम्) यह (पुरुषः) पुरुष (असुना सह) बुद्धि के साथ (सूर्यस्य) सब के चलानेवाले सूर्य [अर्थात् परमेश्वर] के (भागे) ऐश्वर्यसमूह के बीच (अमृतस्य लोके) अमरलोक [मोक्षपद] में (अस्तु) रहे ॥१॥
भावार्थभाषाः - जो मनुष्य अपने आत्मा को परमात्मा के गुणों में निरन्तर लगाते हैं, वे सर्वथा उन्नति करते हैं ॥१॥ सूर्य परमेश्वर का नाम है-यजु० ७।४२। (सूर्य आत्मा जगतस्तस्थुषश्च) सूर्य चेतन और जड़ का आत्मा है ॥
टिप्पणी: १−(अन्तकाय) हसिमृग्रिण्वामिदमि०। उ० ३।८६। अम गत्यादिषु तन्। अन्तो मनोहरः। तत्करोतीत्युपसंख्यानम्। वा० पा० ३।१।२६। इति अन्त-णिच्-ण्वुल्। अन्तं करोति, अन्तयतीति अन्तकः। तस्मै मनोहरकर्त्रे परमेश्वराय (मृत्यवे) अ० ५।३०।१२। मृत्युं नाशयितुम् (प्राणाः) बहिर्मुखसंचारिणो वायवः (अपानाः) अवाङ्मुखसंचारिणो वायवः (इह) अस्मिन् परमात्मनि (ते) तव (रमन्ताम्) क्रीडन्तु (इह) अस्मिन् जगति (अयम्) निर्दिष्टः (अस्तु) भवतु (पुरुषः) मनुष्यः (सह) (असुना) प्रज्ञया-निघ० ३।९। (सूर्यस्य) सर्वप्रेरकस्य परमेश्वरस्य। सूर्य आत्मा जगतस्तस्थुषश्च-यजु० ७।४२। इति प्रमाणम् (भागे) भज-अण्। ऐश्वर्याणां समूहे (अमृतस्य) मोक्षस्य (लोके) स्थाने ॥