वांछित मन्त्र चुनें
128 बार पढ़ा गया

उप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनाम्। श्रेष्ठं॑ स॒वं स॑वि॒ता सा॑विषन्नो॒ऽभीद्धो॑ घ॒र्मस्तदु॒ षु प्र वो॑चत् ॥

मन्त्र उच्चारण
पद पाठ

उप । ह्वये । सुऽदुघाम् । धेनुम् । एताम् । सुऽहस्त: । गोऽधुक् । उत । दोहत् । एनाम् । श्रेष्ठम् । सवम् । सविता । साविषत् । न: । अभिऽइध्द: । घर्म: । तत् । ऊं इति । सु । प्र । वोचत् ॥७७.७॥

अथर्ववेद » काण्ड:7» सूक्त:73» पर्यायः:0» मन्त्र:7


पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (सुदुघाम्) अच्छे प्रकार कामनायें पूरी करनेवाली (एताम्) इस (धेनुम्) विद्या को (उप ह्वये) मैं स्वीकार करता हूँ, (उत्) वैसे ही (सुहस्तः) हस्तक्रिया में चतुर (गोधुक्) विद्या को दोहनेवाला [विद्वान्] (एनाम्) इस [विद्या] को (दोहत्) दुहे। (सविता) ऐश्वर्यवान् परमेश्वर (श्रेष्ठम्) श्रेष्ठ (सवम्) ऐश्वर्य को (नः) हमारे लिये (साविषत्) उत्पन्न करे। (अभीद्धः) सब ओर प्रकाशमान (घर्मः) प्रतापी परमेश्वर ने (तत् उ) उस सबको (सुः) अच्छे प्रकार (प्र वोचत्) उपदेश किया है ॥७॥
भावार्थभाषाः - सब मनुष्य कल्याणी वेदवाणी का पठन-पाठन करके ऐश्वर्य प्राप्त करें। जिस प्रकार परमेश्वर ने उसका उपदेश किया है ॥७॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−१।१६४।२६ ॥
टिप्पणी: ७−(उप) सादरम् (ह्वये) स्वीकरोमि (सुदुघाम्) दुहः कब्घश्च। पा० ३।२।७०। सु+दुह प्रपूरणे-कप्, हस्य घः। सुष्ठु कामप्रपूरिकाम् (धेनुम्) वाचम्। विद्याम्-म० २। (एताम्) (सुहस्तः) अत्यन्तहस्तक्रियाकुशलः (गोधुक्) विद्यादोहकः (उत्) (दोहत्) लेटि रूपम्। दोग्धु (एनाम्) वाचम् (श्रेष्ठम्) (सवम्) ऐश्वर्यम् (सविता) सर्वप्रेरकः परमेश्वरः (साविषत्) अ० ६।१।३। उत्पादयेत् (नः) अस्मभ्यम् (अभीद्धः) सर्वतः दीप्तः (घर्मः) प्रकाशमानः परमेश्वरः (तत्) पूर्वोक्तं सर्वम् (उ) (सु) (प्र) (वोचत्) ब्रूञ्-लुङ्, अडभावश्छान्दसः। उपदिष्टवान् ॥