त॒प्तो वां॑ घ॒र्मो न॑क्षतु॒ स्वहो॑ता॒ प्र वा॑मध्व॒र्युश्च॑रतु॒ पय॑स्वान्। मधो॑र्दु॒ग्धस्या॑श्विना त॒नाया॑ वी॒तं पा॒तं पय॑स उस्रियायाः ॥
तप्त: । वाम् । धर्म: । नक्षतु । स्वऽहोता । प्र । वाम् । अध्वर्यु: । चरतु । पयस्वान् । मधो: । दुग्धस्य । अश्विना । तनाया: । वीतम् । पातम् । पयस: । उस्रियाया: ॥७७.५॥
पण्डित क्षेमकरणदास त्रिवेदी
मनुष्य के कर्तव्य का उपदेश।
