शं नो॒ वातो॑ वातु॒ शं न॑स्तपतु॒ सूर्यः॑। अहा॑नि॒ शं भ॑वन्तु नः॒ शं रात्री॒ प्रति॑ धीयतां शमु॒षा नो॒ व्यु॑च्छतु ॥
पद पाठ
शम् । न: । वात: । वातु । शम् । न: । तपतु । सूर्य: । अहानि। शम् । भवन्तु। न: । शम् । रात्री । प्रति । धीयताम् । शम् । उषा: । न: । वि । उच्छतु ॥७२.१॥
अथर्ववेद » काण्ड:7» सूक्त:69» पर्यायः:0» मन्त्र:1
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सुख के लिये प्रयत्न का उपदेश।
पदार्थान्वयभाषाः - (शम्) सुखकारी (वातः) वायु (नः) हमारे लिये (वातु) चले, (शम्) सुखकारी (सूर्यः) सूर्य (नः) हमारे लिये (शम्) (तपतु) तपे। (अहानि) दिन (नः) हमारे लिये (शम्) सुखकारी (भवन्तु) होवें, (रात्री) रात्रि (शम् प्रति) सुख के लिये (धीयताम्) धारण की जावे (शम्) सुखकारी (उषाः) उषा [प्रभात वेला] (नः) हमारे लिये (वि) विविध प्रकार (उच्छतु) चमके ॥१॥
भावार्थभाषाः - मनुष्य ईश्वर और आप्त विद्वानों की शिक्षा से ऐसे काम करें, जिसमें वायु, सूर्य आदि पदार्थों से प्रतिक्षण सुख मिलता रहे ॥१॥
टिप्पणी: १−(शम्) सुखकरः (नः) अस्मभ्यम् (वातः) वायुः (वातु) संचरतु (शम्) (नः) (तपतु) तपः करोतु (सूर्यः) (अहानि) दिनानि (शम्) सुखकराणि (भवन्तु) (नः) (शम्) सुखम् (रात्री) (प्रति) व्याप्य (धीयताम्) डुधाञ् धारणपोषणयोः-कर्मणि लोट्। ध्रियताम् (शम्) सुखप्रदा (उषाः) प्रभातवेला, (नः) अस्मभ्यम् (वि) विविधम् (उच्छतु) उच्छी विवासे। विवासिता प्रकाशिता भवतु ॥
