इ॒दं ते॑ ह॒व्यं घृ॒तव॑त्सरस्वती॒दं पि॑तॄ॒णां ह॒विरा॒स्यं यत्। इ॒मानि॑ त उदि॒ता शम्त॑मानि॒ तेभि॑र्व॒यं मधु॑मन्तः स्याम ॥
पद पाठ
इदम् । ते । हव्यम् । घृतऽवत् । सरस्वति । इदम् । पितृणाम् । हवि: । आस्यम् । यत् । इमानि । ते । उदिता: । शम्ऽतमानि । तेभि: । वयम् । मधुऽमन्त:। स्याम ॥७०.२॥
अथर्ववेद » काण्ड:7» सूक्त:68» पर्यायः:0» मन्त्र:2
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सरस्वती की आराधना का उपदेश।
पदार्थान्वयभाषाः - (सरस्वति) हे सरस्वती ! (इदम्) यह (यत्) जो (ते) तेरा (घृतवत्) प्रकाशयुक्त (हव्यम्) ग्राह्य कर्म है, और (इदम्) यह [जो] (पितॄणाम्) पिता समान माननीय विद्वानों के (आस्यम्) मुख पर रहनेवाला (हविः) ग्राह्य पदार्थ है और [जो] (ते) तेरे (इमानि) यह सब (शंतमानि) अत्यन्त शान्ति देनेवाले (उदिता) वचन हैं, (तेभिः) उनसे (वयम्) हम (मधुमन्तः) उत्तम ज्ञानवाले (स्याम) होवें ॥२॥
भावार्थभाषाः - जिस वेदविद्या का प्रकाश सारे संसार भर में फैल रहा है, और विद्वान् लोग जिसका अभ्यास करके उपदेश करते हैं, उस विद्या से सब मनुष्य लाभ उठावें ॥२॥
टिप्पणी: २−(इदम्) प्रत्यक्षम् (ते) तव (हव्यम्) ग्राह्यं ज्ञानम् (घृतवत्) प्रकाशयुक्तम् (सरस्वति) विज्ञानवति विद्ये (इदम्) (पितॄणाम्) पितृसममाननीयानां विदुषाम् (हविः) ग्राह्यं कर्म (आस्यम्) आस्य-यत्, यलोपः। आस्ये मुखे भवम्। विधिवदभ्यस्तम् (यत्) (इमानि) (ते) तव (उदिता) वद व्यक्तायां वाचि-क्तः यजादित्वात् संप्रसारणम्। उक्तानि वचनानि (शंतमानि) अत्यर्थं सुखकराणि (तेभिः) (तैः) वचनैः (मधुमन्तः) उत्तमज्ञानयुक्ताः (स्याम) भवेम ॥
