पुन॑र्मैत्विन्द्रि॒यं पुन॑रा॒त्मा द्रवि॑णं॒ ब्राह्म॑णं च। पुन॑र॒ग्नयो॒ धिष्ण्या॑ यथास्था॒म क॑ल्पयन्तामि॒हैव ॥
पद पाठ
पुन: । मा । आ । एतु । इन्द्रियम् । पुन: । आत्मा । द्रविणम् । ब्राह्मणम् । च । पुन: । अग्नय: । धिष्ण्या: । यथाऽस्थाम । कल्पयन्ताम् । इह । एव ॥६९.१॥
अथर्ववेद » काण्ड:7» सूक्त:67» पर्यायः:0» मन्त्र:1
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सुकर्म करने का उपदेश।
पदार्थान्वयभाषाः - (इन्द्रियम्) इन्द्रत्व [परम ऐश्वर्य] (मा) मुझको (पुनः) अवश्य [वा फिर जन्म में], (आत्मा) आत्मबल, (द्रविणम्) धन (च) और (ब्राह्मणम्) वेदविज्ञान (पुनः) अवश्य [वा परजन्म में] (आ एतु) प्राप्त होवे (धिष्ण्याः) बोलने में चतुर (अग्नयः) विद्वान् लोग (यथास्थाम) यथास्थान [कर्म अनुसार मुझको] (इह) यहाँ (एव) ही (पुनः) अवश्य [वा पर जन्म में] (कल्पयन्ताम्) समर्थ करें ॥१॥
भावार्थभाषाः - मनुष्य सदा सुकर्मी होकर इस लोक और परलोक का आनन्द प्राप्त करें ॥१॥ यह मन्त्र ऋग्वेदादिभाष्यभूमिका, पुनर्जन्मविषय, पृष्ठ २०३ में भी व्याख्यात है ॥
टिप्पणी: १−(पुनः) अवश्यं परजन्मनि वा (मा) मां प्राणिनम् (ऐतु) आगच्छतु (इन्द्रियम्) अ० १।३५।३। इन्द्रलिङ्गम्। परमैश्वर्यम्। धनम्-निघ० २।१०। (पुनः) (आत्मा) आत्मबलम् (द्रविणम्) धनम् (ब्राह्मणम्) अ० ७।६६।१। वेदविज्ञानम् (च) (पुनः) (अग्नयः) अ० २।३५।१। ज्ञानिनः पुरुषाः (धिष्ण्याः) अ० २।३५।१। धिष शब्दे-ण्य। शब्दकुशलाः (यथास्थाम) आतो मनिन्०। पा० ३।२।७४। तिष्ठतेर्मनिन्। यथास्थानम्। यथाकर्मफलम् (कल्पयन्ताम्) समर्थयन्तु (इह) अस्मिन् संसारे (एव) हि ॥
