वांछित मन्त्र चुनें
देवता: अग्निः ऋषि: कश्यपः छन्द: जगती स्वर: दुरितनाशन सूक्त

पृ॑तना॒जितं॒ सह॑मानम॒ग्निमु॒क्थ्यैर्ह॑वामहे पर॒मात्स॒धस्था॑त्। स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वोऽति॑ दुरि॒तान्य॒ग्निः ॥

मन्त्र उच्चारण
पद पाठ

पृतनाऽजितम् । सहमानम् । अग्निम् । उक्थै: । हवामहे । परमात् । सधऽस्थात्। स: । न: । पर्षत् । अति । दु:ऽगानि । विश्वा । क्षामत् । देव: । अति । दु:ऽ0इतानि । अग्नि: ॥६५.१॥

अथर्ववेद » काण्ड:7» सूक्त:63» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सेनापति के कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - (पृतनाजितम्) संग्राम जीतनेवाले, (सहमानम्) विजयी, (अग्निम्) अग्निसमान तेजस्वी सेनापति को (उक्थैः) स्तुतियों के साथ [उसके] (परमात्) बहुत ऊँचे (सधस्थात्) निवासस्थान से (हवामहे) हम बुलाते हैं। (सः) वह (देवः) व्यवहारकुशल (अग्निः) तेजस्वी सेनापति (विश्वा) सब (दुर्गाणि) दुर्गों को (अति) उलाँघ कर और (दुरितानि) विघ्नों को (अति) हटाकर (नः) हमें (पर्षत्) पार लगावे, और (क्षामत्) समर्थ करे ॥१॥
भावार्थभाषाः - जो शूर सेनापति शत्रुओं के गढ़ तोड़ कर विजय पाता है, वही प्रजापालन में समर्थ होता है ॥१॥
टिप्पणी: १−(पृतनाजितम्) संग्रामजेतारम् (सहमानम्) षह अभिभवने नैरुक्तो धातुः। अभिभवन्तम्। विजयिनम् (अग्निम्) अग्निवत्तेजस्विनं सेनापतिम् (उक्थैः) वक्तव्यैः स्तोत्रैः (हवामहे) आह्वयामः (परमात्) उत्कृष्टात् (सधस्थात्) निवासात् (सः) (नः) अस्मान् (पर्षत्) अ० ६।३४।१। पारयेत् (अति) उल्लङ्घ्य (दुर्गाणि) दुर्गमनान् शत्रुकोट्टान् (विश्वा) सर्वाणि (क्षामत्) क्षमूष् सहने णिचि, लेटि, अडागमः। क्षामयेत् समर्थयेत् (देवः) व्यवहारकुशलः (अति) अतीत्य (दुरितानि) विघ्नान् (अग्निः) सेनापतिः ॥