वांछित मन्त्र चुनें

अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः। विश्वे॑ दे॒वा अदि॑ति॒र्पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥

मन्त्र उच्चारण
पद पाठ

अदिति: । द्यौ: । अदिति: । अन्तरिक्षम् । अदिति: । माता । स: । पिता । स । पुत्र: । विश्वे । देवा: । अदिति: । पञ्च । जना: । अदिति: । जातम् । अदिति: । जनित्वम् ॥६.१॥

अथर्ववेद » काण्ड:7» सूक्त:6» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

प्रकृति के लक्षण का उपदेश।

पदार्थान्वयभाषाः - (अदितिः=अदितेः) अदीन वा अखण्डित अदिति अर्थात् प्रकृति से (द्यौः) प्रकाशमान सूर्य, (अदितिः) अदिति से (अन्तरिक्षम्) मध्यवर्ती आकाश, (अदितिः) अदिति से (माता) हमारी माता, (सः पिता) वह हमारा पिता, (सः पुत्रः) वह हमारा पुत्र [सन्तान] है। (अदितिः) अदिति से (विश्वे) सब (देवाः) दिव्य गुणवाले पदार्थ, (अदितिः) अदिति से (पञ्च) विस्तृत [वा पञ्चभूत रचित] (जनाः) सब जीव, (अदितिः) अदिति से (जातम्) उत्पन्न जगत् और (जनित्वम्) उत्पन्न होनेवाला जगत् है ॥१॥
भावार्थभाषाः - जो संसार उत्पन्न हुआ है और जो आगे उत्पन्न होगा, वह सब ईश्वरनियम के अनुसार अदिति वा प्रकृति अर्थात् जगत् के कारण से रचा जाता है ॥१॥ यह मन्त्र ऋक्० में है-म० १।८९।१०, यजु० २५।२३। और निरु० ४।२३। में है। भगवान् यास्क मुनि कहते हैं [इत्यदितेर्विभूतिमाचष्ट एनान्यदीनानीति वा] यह मन्त्र अदिति की महिमा कहता है अथवा यह सब वस्तुएँ अदीन हैं-निरु० ४।२३ ॥
टिप्पणी: १−(अदितिः) अ० २।२८।४। दीङ् क्षये, दो अवखण्डने, दाप् लवने-क्तिन्। अदितिरदीना देवमाता-निरु० ४।२२। सुपां सुलुक्०। पा० ७।१।३९। इति पञ्चम्याः सुः। अदितेः। प्रकृतेः। जगत्कारणात् (द्यौः) प्रकाशमानः सूर्यः (अदितिः) (अन्तरिक्षम्) मध्यवर्त्याकाशः (माता) अस्माकं जननी (सः) प्रसिद्धः (पिता) जनकः (सः) (पुत्रः) सन्तानः (विश्वे) सर्वे (देवाः) दिव्यगुणाः पदार्थाः (पञ्च) अ० ६।७५।३। सप्यशूभ्यां तुट् च। उ० १।१५७। इति पचि व्यक्तीकरणे-कनिन्। पञ्चानः। विस्तृताः। पञ्चभूतनिर्मिता वा (जनाः) प्राणिनः (जातम्) उत्पन्नम् (जनित्वम्) जनिदाच्यु०। उ० ४।१०४। इति जनी प्रादुर्भावे-इत्वन्। उत्पत्स्यमानं जगत् ॥