वांछित मन्त्र चुनें

यतो॑ द॒ष्टं यतो॑ धी॒तं तत॑स्ते॒ निर्ह्व॑यामसि। अ॒र्भस्य॑ तृप्रदं॒शिनो॑ म॒शक॑स्यार॒सं वि॒षम् ॥

मन्त्र उच्चारण
पद पाठ

यत: । दष्टम् । यत: । धीतम् । तत: । ते । नि: । ह्वयामसि । अर्भस्य । तृप्रऽदंशिन: । मशकस्य । अरसम् । विषम् ॥५८.३॥

अथर्ववेद » काण्ड:7» सूक्त:56» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विष नाश का उपदेश।

पदार्थान्वयभाषाः - [हे मनुष्य !] (यतः) जहाँ पर (दष्टम्) काटा गया है और (यतः) जहाँ पर (धीतम्) [रुधिर] पिया गया है, (ते) तेरे (ततः) उसी [अङ्ग] से (अर्भस्य) छोटे (तृप्रदंशिनः) तीव्र काटनेवाले (मशकस्य) मच्छर के (अरसम्) निर्बल [किये हुए] (विषम्) विष को (निः) निकालकर (ह्वयामसि) हम वचन देते हैं ॥३॥
भावार्थभाषाः - मनुष्य सुपरीक्षित ओषधियों से प्रयत्नपूर्वक विष आदि रोग नाश करें ॥३॥
टिप्पणी: ३−(यतः) सप्तम्यर्थे तसिः। यस्मिन् देशे (दष्टम्) हिंसितम् (यतः) यस्मिन्नङ्गे (धीतम्) धेट् पाने-क्त। रुधिरं पीतम् (ततः) तस्मादङ्गात् (ते) तव (निः) निःसार्य (ह्वयामसि) कथयामः (अर्भस्य) अल्पस्य (तृप्रदंशिनः) तृप संदीपने प्रीणने च-रक्+दंश दंशने-णिनि। तीव्रदंशनशीलस्य (मशकस्य) मश ध्वनौ कोपे च−वुन्। कीटभेदस्य (अरसम्) निर्बलं कृतम् (विषम्) ॥