मेमं प्रा॒णो हा॑सी॒न्मो अ॑पा॒नोव॒हाय॒ परा॑ गात्। स॑प्त॒र्षिभ्य॑ एनं॒ परि॑ ददामि॒ ते ए॑नं स्व॒स्ति ज॒रसे॑ वहन्तु ॥
पद पाठ
मा । इमम् । प्राण: । हासीत् । मो इति । अपान: । अवऽहाय । परा । गात् । सप्तर्षिऽभ्य: । एनम् । परि । ददामि । ते । एनम् । स्वस्ति । जरसे । वहन्तु ॥५५.४॥
अथर्ववेद » काण्ड:7» सूक्त:53» पर्यायः:0» मन्त्र:4
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
विद्वानों के कर्त्तव्य का उपदेश।
पदार्थान्वयभाषाः - (प्राणः) प्राण (इमम्) इस [प्राणी] को (मा हासीत्) न छोड़े, (मो) और न (अपानः) अपान वायु (अवहाय) छोड़ कर (परा गात्) चला जावे। (एनम्) इस पुरुष को (सप्तर्षिभ्यः) सात व्यापनशीलों वा दर्शनशीलों [अर्थात् त्वचा, नेत्र, कान, जिह्वा, नाक, मन और बुद्धि] को (परि ददामि) मैं समर्पण करता हूँ, (ते) वे (एनम्) इसको (स्वस्ति) आनन्द के साथ (जरसे) स्तुति के लिये (वहन्तु) ले चलें ॥४॥
भावार्थभाषाः - मनुष्य शारीरिक इन्द्रियों को प्राणायाम, व्यायाम आदि से स्वस्थ रख कर धर्म में प्रवृत्त रहें ॥४॥
टिप्पणी: ४−(इमम्) प्राणिनम् (प्राणः) श्वासः (मा हासीत्) ओहाक् त्यागे-लुङ्। मा त्यजतु (मो) नैव (अपानः) प्रश्वासः (अवहाय) ओहाक् त्यागे। प्रत्यज्य (परा गात्) दूरे गच्छेत् (सप्तर्षिभ्यः) अ० ४।११।९। सप्त ऋषयः प्रतिहिताः शरीरे-यजु० ३४।५५। त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धिभ्यः (एनम्) जीवम् (परि ददामि) समर्पयामि (ते) सप्तर्षयः (एनम्) (स्वस्ति) क्षेमेण (जरसे) अ० १।३०।२। जॄ स्तुतौ-असुन्। जरा स्तुतिर्जरतेः। स्तुतिकर्मणः-निरु० १०।८। स्तुतये (वहन्तु) नयन्तु ॥
