वांछित मन्त्र चुनें

परं॒ योने॒रव॑रं ते कृणोमि॒ मा त्वा॑ प्र॒जाभि भू॒न्मोत सूनुः॑। अ॒स्वं त्वाप्र॑जसं कृणो॒म्यश्मा॑नं ते अपि॒धानं॑ कृणोमि ॥

मन्त्र उच्चारण
पद पाठ

परम् । योने: । अवरम् । ते । कृणोमि । मा । त्वा । प्रऽजा । अभ‍ि । भूत् । मा । उत । सूनु: । अस्वम् । त्वा । अप्रजसम् । कृणोमि । अश्मानम् । ते । अपिऽधानम् । कृणोमि ॥३६.३॥

अथर्ववेद » काण्ड:7» सूक्त:35» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - [हे राजन् !] (ते) तेरे (योनेः) घर के (परम्) शत्रु को (अवरम्) नीच (कृणोमि) बनाता हूँ, (त्वा) तुझको (मा) न तो (प्रजा) प्रजा भृत्य आदि (उत) और (मा) न (सूनुः) पुत्र (अभि भूत्) तिरस्कार करे। (त्वा) तुझको (अस्वम्) बुद्धिमान् और (अप्रजसम्) अताड़नीय पुरुष (कृणोमि) मैं करता हूँ और (ते) तेरे (अपिधानम्) ओढ़ने [कवच] को (अश्मानम्) पत्थरसमान दृढ़ (कृणोमि) मैं बनाता हूँ ॥३॥
भावार्थभाषाः - बुद्धिमान्, बलवान्, दृढ़स्वभाव राजा ऐसी सुनीति का प्रचार करे कि उससे उसकी प्रजा और सन्तान में फूट न पड़े, किन्तु सब प्रीतिपूर्वक रहें ॥३॥
टिप्पणी: ३−(परम्) शत्रुम् (योनेः) गृहस्य (अवरम्) अधमम् (ते) तव (कृणोमि) करोमि (मा) निषेधे (त्वा) राजानम् (प्रजा) भृत्यादिः (अभिभूत्) अभिभवेत्। तिरस्कुर्यात् (मा) निषेधे (उत) अपि (सूनुः) पुत्रः (अस्वम्) असु-अर्शआद्यच्। असुः प्रज्ञाः-निघ० ३।९। प्रज्ञावन्तम् (त्वा) राजानम् (अप्रजसम्) जसु हिंसायां ताडने च-पचाद्यच्। अताडनीयम् बलवन्तम् (कृणोमि) (अश्मानम्) पाषाणवद् दृढम् (ते) तव (अपिधानम्) संवरणम्। कवचम् ॥