वांछित मन्त्र चुनें

वे॒दः स्व॒स्तिर्द्रु॑घ॒णः स्व॒स्तिः प॑र॒शुर्वेदिः॑ पर॒शुर्नः॑ स्व॒स्ति। ह॑वि॒ष्कृतो॑ यज्ञिया य॒ज्ञका॑मास्ते दे॒वासो॑ य॒ज्ञमि॒मं जु॑षन्ताम् ॥

मन्त्र उच्चारण
पद पाठ

वेद: । स्वस्ति: । द्रुऽघन: । स्वस्ति: । परशु: । वेदि: । परशु: । न: । स्वस्ति । हवि:ऽकृत: । यज्ञिया: । यज्ञऽकामा: । ते । देवास: । यज्ञम् । इमम् । जुषन्ताम् ॥२९.१॥

अथर्ववेद » काण्ड:7» सूक्त:28» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

यज्ञ करने का उपदेश।

पदार्थान्वयभाषाः - (वेदः) वेद [ईश्वरीय ज्ञान] (स्वस्तिः) मङ्गलकारी हो, (द्रुघणः) मुद्गर [मोगरी] (स्वस्तिः) मङ्गलकारी हो, (वेदिः) वेदी [यज्ञभूमि, हवनकुण्ड आदि], (परशुः) फरसा [वा गड़ासी] और (परशुः) कुल्हाड़ी (नः) हमें (स्वस्ति) मङ्गलकारी हो। (हविष्कृतः) देने लेने योग्य व्यवहार करनेवाले, (यज्ञियाः) पूजनीय, (यज्ञकामाः) मिलाप चाहनेवाले (ते) वे (देवासः) विद्वान् लोग (इमम्) इस (यज्ञम्) यज्ञ [पूजनीय कर्म को] (जुषन्ताम्) स्वीकार करें ॥१॥
भावार्थभाषाः - मनुष्य वेदज्ञान द्वारा सब उचित सामग्री लेकर विद्वानों के सत्सङ्ग से अग्नि में हवन तथा शिल्प सम्बन्धी संयोग-वियोग आदि क्रिया करके आनन्दित रहें ॥१॥
टिप्पणी: १−(वेदः) हलश्च। पा० ३।३।१२१। इति विद ज्ञाने, विद सत्तायाम्, विद्लृ लाभे, विद विचारणे-घञ्। संहितात्मकः परमेश्वरोक्तो ग्रन्थभेदः (स्वस्तिः) अ० १।३०।२। मङ्गलकरः (द्रुघणः) करणेऽयोविद्रुषु। पा० ३।३।८२। इति द्रु+हन्-अप्, घनादेशश्च। पूर्वपदात्संज्ञायामगः। पा० ८।४।३। इति णत्वम्। द्रुमयः काष्ठमयो घनः। मुद्गरः (स्वस्तिः) (परशुः) अ० ३।१९।४। तृणादिच्छेदनी (वेदिः) हृपिषिरुहिवृतिविदि–०। उ० ४।११९। इति विद ज्ञाने-इन्। यज्ञभूमिः। हवनकुण्डादिः। पण्डितः (परशुः) वृक्षच्छेदनसाधनं कुठारः (नः) अस्मभ्यम् (स्वस्ति) सुखकरः (हविष्कृतः) दातव्यग्राह्यव्यवहारकर्तारः (यज्ञियाः) आदरार्हाः (यज्ञकामाः) संगतिं कामयमानाः (ते) प्रसिद्धाः (देवासः) व्यवहारिणो विद्वांसः (यज्ञम्) पूजनीयं व्यवहारम् (इमम्) (जुषन्ताम्) सेवन्ताम् ॥