वांछित मन्त्र चुनें

घृ॒तम॑प्स॒राभ्यो॑ वह॒ त्वम॑ग्ने पां॒सून॒क्षेभ्यः॒ सिक॑ता अ॒पश्च॑। य॑थाभा॒गं ह॒व्यदा॑तिं जुषा॒णा मद॑न्ति दे॒वा उ॒भया॑नि ह॒व्या ॥

मन्त्र उच्चारण
पद पाठ

घृतम् । अप्सराभ्य: । वह । त्वम् । अग्ने । पांसून् । अक्षेभ्य: । सिकता: । अप: । च । यथाऽभागम् । हव्यऽदातिम् । जुषाणा: । मदन्ति । देवा: । उभयानि । हव्या ॥११४.२॥

अथर्ववेद » काण्ड:7» सूक्त:109» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

व्यवहारसिद्धि का उपदेश।

पदार्थान्वयभाषाः - (अग्ने) हे विद्वान् पुरुष ! (त्वम्) तू (अप्सराभ्यः) अप्सराओं [प्राणियों में व्यापक शक्तियों] के लिये और (अक्षेभ्यः) व्यवहारों [की सिद्धि] के लिये (पांसून्) धूलि [भूमिस्थलों] से (च) और (सिकताः) सींचनेवाले (अपः) जलों से (घृतम्) घृत [सार पदार्थ] (वह) पहुँचा। (देवाः) विद्वान् लोग (यथाभागम्) भाग के अनुसार (हव्यदातिम्) ग्राह्य पदार्थों के दान का (जुषाणाः) सेवन करते हुए (उभयानि) पूर्ण (हव्या) ग्राह्य पदार्थों को (मदन्ति) भोगते हैं ॥२॥
भावार्थभाषाः - मनुष्य भूमिविद्या, जलविद्या आदि में निपुण होकर आत्मपोषण और समाजपोषण का सामर्थ्य अपने पुरुषार्थ के अनुसार बढ़ावें ॥२॥
टिप्पणी: २−(घृतम्) सारपदार्थम् (अप्सराभ्यः) अ० २।२।३। अप्सु प्रजासु सरणशीलाभ्यो व्यापिकाभ्यः शक्तिभ्यः (वह) द्विकर्मकः। प्रापय (त्वम्) (अग्ने) विद्वन् पुरुष (पांसून्) अर्जिदृशिकम्यमिपंसि०। उ० १।२७। इति पसि नाशने-कु, दीर्घश्च। पांसवः पादैः सूयन्त इति वा, पन्ना शेरत इति वा पंसनीया भवन्तीति वा-निरु० १२।१९। धूलिकणान्। भूमिस्थलानीत्यर्थः (अक्षेभ्यः) अ० ६।७०।१। व्यवहारान् साधितुम् (सिकताः) पृषिरञ्जिभ्यां कित्। उ० ३।१११। सिक सेचने-अतच्, स च कित्। सेचनसमर्थाः (अपः) जलानि (च) (यथाभागम्) भागमनतिक्रम्य (हव्यदातिम्) हव्यानां ग्राह्यपदार्थानां दानम् (जुषाणाः) सेवमानाः (मदन्ति) आनन्दयन्ति (देवाः) विद्वांसः (उभयानि) वलिमलितनिभ्यः कयन्। उ० ४।९९। इति उभ पूरणे-कयन्। पूर्णानि (हव्या) ग्राह्यवस्तूनि ॥