वांछित मन्त्र चुनें

कः पृश्निं॑ धे॒नुं वरु॑णेन द॒त्तामथ॑र्वणे सु॒दुघां॒ नित्य॑वत्साम्। बृह॒स्पति॑ना स॒ख्यं जुषा॒णो य॑थाव॒शं त॒न्वः कल्पयाति ॥

मन्त्र उच्चारण
पद पाठ

क: । पृश्निम् । धेनुम् । वरुणेन । दत्ताम् । अथर्वणे । सुऽदुघाम् ॥ नित्यऽवत्साम् । बृहस्पत‍िना । सख्यम् । जुषाण: । यथाऽवशम् । तन्व: । कल्पयाति ॥१०९.१॥

अथर्ववेद » काण्ड:7» सूक्त:104» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

वेदविद्या के प्रचार का उपदेश।

पदार्थान्वयभाषाः - (कः) प्रकाशमान [प्रजापति मनुष्य] (बृहस्पतिना) बड़े-बड़े लोकों के स्वामी [परमेश्वर] के साथ (यथावशम्) इच्छानुसार [अपने] (तन्वः) शरीर की (सख्यम्) मित्रता का (जुषाणः) सेवन करता हुआ, (अथर्वणे) निश्चल स्वभाववाले पुरुष को (वरुणेन) श्रेष्ठ परमात्मा करके (दत्ताम्) दी हुई, (सुदुघाम्) अत्यन्त पूरण करनेवाली, (नित्यवत्साम्) नित्य उपदेश करनेवाली, (पृश्निम्) प्रश्न करने योग्य (धेनुम्) वाणी [वेदवाणी] को (कल्पयाति) समर्थ करे ॥१॥
भावार्थभाषाः - मनुष्य परमेश्वर की दी हुई कल्याणी वेदवाणी को ईश्वरभक्ति के साथ संसार में फैलावें ॥१॥
टिप्पणी: १−(कः) गतसूक्ते व्याख्यातः। प्रकाशमानः प्रजापतिः पुरुषः (पृश्निम्) घृणिपृश्निपार्ष्णि०। उ० ४।५२। प्रच्छ ज्ञीप्सायाम्-नि। प्रष्टव्याम् (धेनुम्) अ० ३।१०।१। वाचम्-निघ० १।११। वेदवाणीम् (वरुणेन) श्रेष्ठेन परमेश्वरेण (दत्ताम्) (अथर्वणे) अ० ४।३७।१। निश्चलस्वभावाय योगिने (सुदुघाम्) अ० ७।७३।७। सुष्ठु पूरयित्रीम् (नित्यवत्साम्) वृतॄवदिवचिवसि०। उ० ३।६२। वद व्यक्तायां वाचि-स प्रत्ययः। नित्योपदेशिकाम् (बृहस्पतिना) बृहतां लोकानां पालकेन। परमात्मना सह (सख्यम्) मित्रभावम् (जुषाणः) सेवमानः (यथावशम्) यथेच्छम् (तन्वः) शरीरस्य (कल्पयाति) कल्पयतेर्लेटि आडागमः। समर्थयेत् ॥