वांछित मन्त्र चुनें

यस्ते॒ स्तनः॑ शश॒युर्यो म॑यो॒भूर्यः सु॑म्न॒युः सु॒हवो॒ यः सु॒दत्रः॑। येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि॒ सर॑स्वति॒ तमि॒ह धात॑वे कः ॥

मन्त्र उच्चारण
पद पाठ

य: । ते । स्तन: । शशयु: । य: । मय:ऽभू: । य: । सुम्नऽयु: । सुऽहव: । य: । सुऽदत्र: । येन । विश्वा । पुष्यसि । वार्याणि । सरस्वति । तम् । इह । धातवे । क: ॥११.१॥

अथर्ववेद » काण्ड:7» सूक्त:10» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सरस्वती के विषय का उपदेश।

पदार्थान्वयभाषाः - (सरस्वति) हे सरस्वती, विज्ञानवती स्त्री ! [वा वेदविद्या] (यः) जो (ते) तेरा (स्तनः) स्तन, दूध का आधार (शशयुः) प्रशंसा पानेवाला, (यः) जो (मयोभूः) सुख देनेवाला और (यः) जो (सुम्नयुः) उपकार करनेवाला, (सुहवः) अच्छे प्रकार ग्रहणयोग्य और (यः) जो (सुदत्रः) बड़ा दानी है। (येन) जिस स्तन से (विश्वा) सब (वार्याणि) स्वीकरणीय अङ्गों को (पुष्यसि) तू पुष्ट करती है (तम्) उस स्तन को (इह) यहाँ (धातवे) पीने के लिये (कः) तूने ठीक किया है ॥१॥
भावार्थभाषाः - जिस प्रकार विदुषी माता का दूध पीकर बालक शरीर से पुष्ट हो कान्तिमान् होता है, वैसे ही विद्वान् पुरुष वेदविद्या का अमृत पान करके आत्मबल से पुष्ट होकर कीर्तिमान् होता है ॥१॥ यह मन्त्र कुछ भेद से ऋग्वेद में है-म० १।१६४।४९। और यजुर्वेद, ३८।५। और श्रीमद्दयानन्दकृत संस्कारविधि, जातकर्म में बालक के स्तनपान करने के विषय में आया है ॥
टिप्पणी: १−(यः) (ते) तव (स्तनः) दुग्धाधारः (शशयुः) शशमानः, अर्चतिकर्मा-निघ० ३।१४। शशमानः शंशमानः-निरु० ६।८। इति श्रवणात्, शंसु स्तुतौ-अ प्रत्ययः+या गतौ-कु, मृगय्वादित्वात्-उ० १।३७। अनुस्वारलोपः सकारस्य शकारश्च छान्दसः। शंसं शंसां प्रशंसां याति यः सः (यः) (मयोभूः) सुखस्य भावयिता प्रापयिता (सुम्नयुः) छन्दसि परेच्छायां क्यच्। वा० पा० ३।१।८। सुम्न-क्यच्, उ प्रत्ययः। सुम्नं सुखं परेषामिच्छतीति यः। उपकारी (सुहवः) शोभनो हवो ग्रहणं यस्य सः (सुदत्रः) सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। इति ददातेः ष्ट्रन्, हस्वः। सुदत्रः कल्याणदानः-निरु० ६।१४। महादाता (येन) स्तनेन (विश्वा) सर्वाणि (पुष्यसि) पोषयसि (वार्याणि) वरणीयानि स्वीकरणीयानि अङ्गानि (सरस्वति) सरांसि विज्ञानानि सन्ति यस्यां सा विज्ञानवती स्त्री वेदवाणी वा, तत्सम्बुद्धौ (तम्) स्तनम् (इह) अस्मिन् कर्मणि (धातवे) धेट् पाने−तुमर्थे तवेन् प्रत्ययः। धातुं पानं कर्त्तुम् (कः) करोतेर्लुङि। मन्त्रे घसह्वर०। पा० २।४।८०। इति च्लेर्लुकि गुणे। हल्ङ्याब्भ्यो०। पा० ६।१।६८। इति सिपो लोपः, अडभावे रूपम्। अकः। त्वं योग्यं कृतवती ॥