वांछित मन्त्र चुनें
202 बार पढ़ा गया

यो नः॑ सोम सुशं॒सिनो॑ दुः॒शंस॑ आ॒दिदे॑शति। वज्रे॑णास्य॒ मुखे॑ जहि॒ स संपि॑ष्टो॒ अपा॑यति ॥

मन्त्र उच्चारण
पद पाठ

य: । न: । सोम । सुऽशंसिन: । दु:ऽशंस: । आऽदिदेशति । वज्रेण । अस्य । मुखे । जहि । स: । सम्ऽपिष्ट: । अप । अयति ॥६.२॥

अथर्ववेद » काण्ड:6» सूक्त:6» पर्यायः:0» मन्त्र:2


पण्डित क्षेमकरणदास त्रिवेदी

शत्रु के नाश का उपदेश।

पदार्थान्वयभाषाः - (सोम) हे बड़े ऐश्वर्यवाले जगदीश्वर ! (यः) जो (दुःशंसः) अति दुर्गतिवाला शत्रु (सुशंसिनः) बड़ी स्तुतिवाले (नः) हम लोगों पर (आदिदेशति) आदेश वा आज्ञा करे। (अस्य) उसके (मुखे) मुख पर (वज्रेण) वज्र से (जहि) ताडना कर। (स) वह (संपिष्टः) चूर-चूर होकर (अप अयति) भाग जावे ॥२॥
भावार्थभाषाः - मनुष्य परमेश्वर से सामर्थ्य पाकर शत्रुओं को वश में रक्खे ॥२॥
टिप्पणी: २−(यः) शत्रुः (नः) अस्मान् (सोम) हे परमैश्वर्यवन् परमेश्वर (सुशंसिनः) शंसु स्तुतौ दुर्गतौ च−णिनि। बहुस्तुतियुक्तान् (दुःशंसः) शंसु−पचाद्यच्। अतिदुर्गतिः। महादुष्टाभिप्रायः (आदिदेशति) आङ्+दिश आदेशे, द्वित्वं शप् च छान्दसम्। आदिशति आज्ञापयति। शास्ति (वज्रेण) वर्जकेन शस्त्रेण (अस्य) शत्रोः (मुखे) वदने (जहि) ताडय (सः) शत्रुः (संपिष्टः) चूर्णीभूतः सन् (अप अयति) अप गच्छति। पलायते ॥