इ॒दं तृ॒तीयं॒ सव॑नं कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त। ते सौ॑धन्व॒नाः स्वरानशा॒नाः स्विष्टिं नो अ॒भि वस्यो॑ नयन्तु ॥
पद पाठ
इदम् । तृतीयम् । सवनम् । कवीनाम् । ऋतेन । ये । चमसम् । ऐरयन्त । ते । सौधन्वना: । स्व: । आनशाना: । सुऽइष्टिम् । न: । अभि । वस्य: । नयन्तु॥४७.३॥
अथर्ववेद » काण्ड:6» सूक्त:47» पर्यायः:0» मन्त्र:3
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
आत्मा की उन्नति का उपदेश।
पदार्थान्वयभाषाः - (ये) जिन [महात्माओं] ने (कवीनाम्) बुद्धिमानों के (ऋतेन) सत्य से (इदम्) इस (तृतीयम्) तीसरे (सवनम्) यज्ञ में (चमसम्) अन्न (ऐरयन्त) प्राप्त कराया है। (ते) वे (स्वः) सुख (आनशानाः) भोगते हुए (सौधन्वनाः) अच्छे-अच्छे धनुष् वा विज्ञानवाले पुरुष (नः) हमारे (स्विष्टिम्) अच्छे यज्ञ को (वस्यः अभि) उत्तम फल की ओर (नयन्तु) ले चलें ॥३॥
भावार्थभाषाः - मनुष्य परोपकारी पूर्वज महाशयों से उत्तम धनुर्वेदविद्या और शास्त्रविद्या प्राप्त करके उत्तम फल भोगें ॥३॥
टिप्पणी: ३−(इदम्) (तृतीयम्) सायंकालीनम् (सवनम्) यज्ञं प्रति (कवीनाम्) मेधाविनाम्−निघ० ३।१५। (ऋतेन) सत्येन (ये) विद्वांसः (चमसम्) अत्यविचमि०। उ० ३।११७। इति चमु अदने−असच्। चमसः कस्माच्चमन्त्यस्मिन्निति−निरु० १०।१२। अन्नम् (ऐरयन्त) ईर गतौ कम्पने च, द्विकर्मकः। प्रापितवन्तः (ते) प्रसिद्धाः (सौधन्वनाः) कनिन् युवृषितक्षि०। उ० १।१५६। इति धवि, धन्व गतौ−कनिन्। तस्येदम्। पा० ४।३।१२०। इति सुधन्वन्−अण्। सुधन्वानि शोभनानि धनूंषि विज्ञानानि वा येषां ते। शोभनधनुर्वेदयुक्ताः। शोभनविज्ञानाः−दयानन्दभाष्ये, ऋ० १।११०।४, ८ (स्वः) सुखम् (आनशानाः) अ० २।१।५। प्राप्नुवन्तः (स्विष्टिम्) शोभनं यज्ञम् (नः) अस्माकम् (अभि) अभिलक्ष्य (वस्यः) वसु−ईयसुन्, ईकारलोपः। वसीयः। अतिप्रशस्तं फलम् (नयन्तु) गमयन्तु ॥
