अ॑व॒शसा॑ निः॒शसा॒ यत्प॑रा॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑। अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ॥
पद पाठ
अवऽशसा । नि:ऽशसा । यत् । पराऽशसा। उपऽआरिम । जाग्रत: । यत् । स्वपन्त:। अग्नि: । विश्वानि । अप । दु:ऽकृतानि । अजुष्टानि । आरे । अस्मत् । दधातु ॥४५.२॥
अथर्ववेद » काण्ड:6» सूक्त:45» पर्यायः:0» मन्त्र:2
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
मानसिक पाप के नाश का उपदेश।
पदार्थान्वयभाषाः - (यत्) जो पाप (अवशसा) विश्वासघात से (निःशसा) घृणा से, और (पराशसा) अपवाद से, अथवा (यत्) जो पाप (जाग्रतः) जागते हुए वा (स्वपन्तः) सोते हुए (उपारिम) हम ने किया है। (अग्निः) सर्वव्यापक परमेश्वर (विश्वानि) सब (अजुष्टानि) अप्रिय (दुष्कृतानि) दुष्कर्मों को (अस्मत्) हम से (आरे) दूर (अप दधातु) हटा रक्खे ॥२॥
भावार्थभाषाः - मनुष्य सर्वशक्तिमान् न्यायकारी परमेश्वर का भय मानकर कभी कोई दुष्कर्म न करें ॥२॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१६४।३ ॥
टिप्पणी: २−(अवशसा) शसु हिंसायाम्−क्विप्। अवशसनेन। विश्वासघातेन (निःशसा) नितरां हिंसनेन। अतिघृणया (यत्) यत्किंचित् पापम् (पराशसा) पराङ्मुखहिंसनेन अपवादेन (उप−आरिम) ऋ गतौ−लिट्। वयःसमीपे प्राप्तवन्तः। कृतवन्तः (जाग्रतः) जागृ निद्राक्षये−शतृ। जागरदवस्थापन्नाः (स्वपन्तः) निद्रावस्थां प्राप्ताः (अग्निः) सर्वव्यापकः परमेश्वरः (विश्वानि) सर्वाणि (अप) अपकृत्य (दुष्कृतानि) दुष्कर्माणि (अजुष्टानि) अप्रियाणि (आरे) दूरे (अस्मत्) अस्मत्तः (दधातु) स्थापयतु ॥
