अस्था॒द्द्यौरस्था॑त्पृथि॒व्यस्था॒द्विश्व॑मि॒दं जग॑त्। अस्थु॑र्वृ॒क्षा ऊ॒र्ध्वस्व॑प्ना॒स्तिष्ठा॒द्रोगो॑ अ॒यं तव॑ ॥
पद पाठ
अस्थात् । द्यौ: । अस्थात् । पृथिवी । अस्थात् । विश्वम् । इदम् । जगत् अस्थु: । वृक्षा: । ऊर्ध्वऽस्वप्ना: । तिष्ठात् । रोग: । अयम् । तव ॥४४.१॥
अथर्ववेद » काण्ड:6» सूक्त:44» पर्यायः:0» मन्त्र:1
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
रोग के नाश के लिये उपदेश।
पदार्थान्वयभाषाः - (द्यौः) सूर्य लोक (अस्थात्) ठहरा है, (पृथिवी) पृथिवी (अस्थात्) ठहरी है, (इदम्) यह (विश्वम्) सब (जगत्) जगत् (अस्थात्) ठहरा है। (ऊर्ध्वस्वप्नाः) ऊपर को मुख करके सोनेवाले (वृक्षाः) वृक्ष (अस्थुः) ठहरे हुए हैं, [ऐसे ही] (तव) तेरा (अयम्) यह (रोगः) रोग (तिष्ठात्) ठहर जावे [और न बढ़े] ॥१॥
भावार्थभाषाः - जैसे संसार के सब लोक परस्पर धारण और आकर्षण द्वारा अपनी-अपनी कक्षा और परिधि में स्थित हैं, वैसे ही मनुष्य अपने दोषों को नियम में रक्खे ॥१॥
टिप्पणी: १−(अस्थात्) स्थिरोऽभूत् (द्यौः) प्रकाशमानः सूर्यः (अस्थात्) (पृथिवी) विस्तृता भूमिः (अस्थात्) (विश्वम्) सर्वम् (इदम्) दृश्यमानम् (जगत्) लोकः (अस्थुः) स्थिता अभूवन् (वृक्षाः) पादपाः (ऊर्ध्वस्वप्नाः) उपरिमुखाः सन्तो निद्रालवः (तिष्ठात्) गतिनिवृत्तो भूयात् (रोगः) शारीरिको मानसिको वा व्याधिः (अयम् तव) ॥
