वांछित मन्त्र चुनें

अ॒भि ति॑ष्ठामि ते म॒न्युं पार्ष्ण्या॒ प्रप॑देन च। यथा॑व॒शो न वादि॑षो॒ मम॑ चित्तमु॒पाय॑सि ॥

मन्त्र उच्चारण
पद पाठ

अभि । तिष्ठामि । ते । मन्युम् । पार्ष्ण्या । प्रऽपदेन । च । यथा । अवश: । न । वादिष: । मम । चित्तम् । उपऽआयसि ॥४२.३॥

अथर्ववेद » काण्ड:6» सूक्त:42» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

क्रोध की शान्ति के लिये उपदेश।

पदार्थान्वयभाषाः - [हे मनुष्य !] (ते) तेरे (मन्युम्) क्रोध को [तेरी] (पार्ष्ण्या) एड़ी से (च) और (प्रपदेन) ठोकर से (अभि तिष्ठामि) मैं दबाता हूँ। (यथा) जिस से (अवशः) परवश (न=न भूत्वा) न होकर (वादिषः) तू बातचीत करे, (मम) मेरे (चित्तम्) चित्त में (उप−आयसि) तू पहुँच करता है ॥३॥
भावार्थभाषाः - मनुष्य क्रोधवश न होकर परस्पर शान्तचित्त रहें ॥३॥
टिप्पणी: ३−(अभि तिष्ठामि) अभिभवामि (ते) तव (मन्युम् क्रोधम्) (पार्ष्ण्या) पादापरभागेन (प्रपदेन) पादाग्रेण (यथा) येन प्रकारेण (अवशः) परवशः। क्रोधवशः (न) न भूत्वा (वादिषः) वदेर्लेटि अडागमः, सिप् च। त्वं ब्रूयाः (मम) (चित्तम्) अन्तःकरणम् (उप−आयसि) अ० १।३४।२। उपागच्छसि। आदरेण सर्वतः प्राप्नोषि ॥