वांछित मन्त्र चुनें

रा॑ज॒न्ये दुन्दु॒भावाय॑ताया॒मश्व॑स्य॒ वाजे॒ पुरु॑षस्य मा॒यौ। इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ ऐतु॒ वर्च॑सा संविदा॒ना ॥

मन्त्र उच्चारण
पद पाठ

राजन्ये । दुन्दुभौ । आऽयतायाम् । अश्वस्य । वाजे । पुरुषस्य । मायौ । इन्द्रम् । या । देवी । सुऽभगा । जजान । सा । न: । आ । एतु । वर्चसा । सम्ऽविदाना ॥३८.४॥

अथर्ववेद » काण्ड:6» सूक्त:38» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ऐश्वर्य पाने के लिये उपदेश।

पदार्थान्वयभाषाः - (राजन्ये) क्षत्रिय में, (आयतायाम्) फली हुई (दुन्दुभौ) दुन्दुभी में, (अश्वस्य) घोड़े के (वाजे) बल में, (पुरुषस्य) मनुष्य के (मायौ) पित्त या शब्द में [जो ज्योति है] (या) जिस... म० १ ॥४॥
टिप्पणी: ४−(राजन्ये) अ० ५।१७।९। क्षत्रियकुले (दुन्दुभौ) अ० ५।२०।१। बृहड्ढक्कायाम् (आयतायाम्) दीर्घायाम् (अश्वस्य) तुरङ्गस्य (वाजे) बले (पुरुषस्य) मनुष्यस्य (मायौ) कृवापाजिमि०। उ० १।१। इति मिञ् प्रक्षेपणे−उण् अथवा माङ् माने शब्दे च−यु। पित्ते। शब्दे। अन्यद्गतम् ॥