वांछित मन्त्र चुनें

वै॑श्वान॒रोऽङ्गि॑रसां॒ स्तोम॑मु॒क्थं च॑ चाक्लृपत्। एषु॑ द्यु॒म्नं स्वर्यमत् ॥

मन्त्र उच्चारण
पद पाठ

वैश्वानर: । अङ्गिरसाम् । स्तोमम् । उक्थम् । च । चक्लृपत् । आ । एषु । द्युम्नम् । स्व: । यमत् ॥३५.३॥

अथर्ववेद » काण्ड:6» सूक्त:35» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

यश की प्राप्ति का उपदेश।

पदार्थान्वयभाषाः - (वैश्वानरः) सब नरों का नायक परमेश्वर (अङ्गिरसाम्) ज्ञानी महर्षियों के (स्तोमम्) स्तुति-योग्य कर्म (च) और (उक्थम्) प्रकथनीय गुण को (चक्लृपत्) समर्थ करे। (एषु) इन [महर्षियों] में (द्युम्नम्) प्रकाशमान यश वा अन्न और (स्वः) अच्छे प्रकार प्राप्तियोग्य सुख (आ) सब ओर से (यमत्) स्थिर रहे ॥३॥
भावार्थभाषाः - विद्वान् लोग परमेश्वर के गुणों को जान कर पुरुषार्थपूर्वक संसार में कीर्ति और आनन्द पाते हैं ॥३॥
टिप्पणी: ३−(वैश्वानरः) सर्वनरहितः (अङ्गिरसाम्) अ० २।५।२। ज्ञानिनां महर्षीणाम् (स्तोमम्) स्तुत्यं कर्म (उक्थम्) प्रकथनीयं गुणम् (च) (चक्लृपत्) कृपू सामर्थ्ये−लेट्। छान्दसं द्वित्वम्। कल्पयेत्। समर्थं कुर्य्यात् (एषु) अङ्गिरःसु (द्युम्नम्) तृषिशुषिरसिभ्यः कित्। उ० ३।१२। इति द्युत दीप्तौ−न कित्, तकारस्य मकारः। यद्वा, द्यु अभिगमने−न, मगागमः। द्युम्नं द्योततेर्यशो वान्नं वा−निरु० ५।५। द्योतमानं यशः। अन्नम् (स्वः) सुष्ठु अरणीयं प्राप्तव्यं सुखम् (यमत्) यमु उपरमे−लेट्। इतश्च लोपः परस्मैपदेषु। पा० ३।४।९७। इकारलोपः। उपरमेत्। तिष्ठेत् ॥