वांछित मन्त्र चुनें

वै॑श्वान॒रो न॒ आग॑मदि॒मं य॒ज्ञं स॒जूरुप॑। अ॒ग्निरु॒क्थेष्वंह॑सु ॥

मन्त्र उच्चारण
पद पाठ

वैश्वानर । न: । आ । अगमत् । इमम् । यज्ञम् । सऽजू: । उप । अग्नि: । उक्थेषु । अंहऽसु ॥३५.२॥

अथर्ववेद » काण्ड:6» सूक्त:35» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

यश की प्राप्ति का उपदेश।

पदार्थान्वयभाषाः - (वैश्वानरः) सब का नाशक, (सजूः) प्रीतिवाला (अग्निः) सर्वव्यापक परमेश्वर (अंहसु) प्राप्तियोग्य (उक्थेषु) प्रकथनीय गुणों में वर्तमान होकर (इमम्) इस (यज्ञम्) पूजनीय कर्म को (उप=उपेत्य) प्राप्त करके (न) हमको (आ अगमत्) प्राप्त हुआ है ॥२॥
भावार्थभाषाः - सर्वशक्तिमान् परमेश्वर की स्तुति गाकर हम सदा पुरुषार्थ करें ॥२॥
टिप्पणी: २−(वैश्वानरः) सर्वनायकः (नः) अस्मान् (आ अगमत्) प्राप्तवान् (इमम्) क्रियमाणम् (यज्ञम्) पूजनीयं व्यवहारम् (सजूः) सह+जुषी प्रीतिसेवनयोः−क्विप्। ससजुषो रुः। पा० ८।२।६६। इति रुत्वम्। र्वोरुपधाया दीर्घ इकः। पा० ८।२।७६। इति दीर्घः। जुषा सह वर्तमानः। प्रीतियुक्तः (उप) उपेत्य (अग्निः) सर्वव्यापकः परमेश्वरः (उक्थेषु) अ० २।१२।२। प्रकथनीयेषु गुणेषु (अहसु) अहि गतौ−अच्। प्राप्तव्येषु ॥