वांछित मन्त्र चुनें

अभ॑यं मित्रावरुणावि॒हास्तु॑ नो॒ऽर्चिषा॒त्त्रिणो॑ नुदतं प्र॒तीचः॑। मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम् ॥

मन्त्र उच्चारण
पद पाठ

अभयम् । मित्रावरुणौ । इह । अस्तु । न: । अर्चिषा । अत्त्रिण: । नुदतम् । प्रतीच: । मा । ज्ञातारम् । मा । प्रतिऽस्थाम् । विदन्त । मिथ: । विऽघ्नाना: । उप । यन्तु । मृत्युम् ॥३२.३॥

अथर्ववेद » काण्ड:6» सूक्त:32» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राक्षसों के नाश का उपदेश।

पदार्थान्वयभाषाः - (मित्रावरुणौ) हे प्राण और अपान ! [अथवा हे दिन और रात्रि !] (नः) हमारे लिये (इह) यहाँ पर (अभयम्) अभय (अस्तु) होवे, [तुम दोनों अपने] (अर्चिषा) तेज से (अत्त्रिणः) खा डालनेवालों को (प्रतीचः) उलटा (नुदतम्) हटा दो। वे लोग (मा) न तो (ज्ञातारम्) सन्तोषक पुरुष को और (मा) न (प्रतिष्ठाम्) प्रतिष्ठा को (विदन्त) पावें, (मिथः) आपस में (विघ्नानाः) मारते हुए (मृत्युम्) मृत्यु को (उप यन्तु) प्राप्त हों ॥३॥
भावार्थभाषाः - मनुष्य अपने शारीरिक और आत्मिक बल और समय का ऐसा सुन्दर प्रयोग करें जिससे शत्रु लोग कही शरण न पावें और आपस में कट मरें ॥३॥
टिप्पणी: ३−(अभयम्) भयराहित्यम् (मित्रावरुणौ) अ० १।२०।२। हे प्राणापानौ। अहोरात्रे (इह) अत्र (अस्तु) (नः) अस्मभ्यम् (अर्चिषा) तेजसा (अत्त्रिणः) अ० १।७।३। भक्षकान् (नुदतम्) प्रेरयतम् (प्रतीचः) अ० ३।१।४। प्रत्यङ्मुखान् (मा) निषेधे (ज्ञातारम्) ज्ञा चुरा० तोषे−तृच्। ज्ञापयितारं सन्तोषकम् (मा) (प्रतिष्ठाम्) आश्रयम् (मा विदन्त) विद्लृ लाभे−लुङ्, तकारश्छान्दसः। अविदन्। मा लभन्ताम् (मिथः) परस्परम् (विघ्नानाः) युधिबुधिदृशः किच्च। उ० २।९०। इति हन वधे−आनच् कित्। विघानका (उपयन्तु) प्राप्नुवन्तु (मृत्युम्) मरणम् ॥