वांछित मन्त्र चुनें

यस्ते॒ मदो॑ऽवके॒शो वि॑के॒शो येना॑भि॒हस्यं॒ पुरु॑षं कृ॒णोषि॑। आ॒रात्त्वद॒न्या वना॑नि वृक्षि॒ त्वं श॑मि श॒तव॑ल्शा॒ वि रो॑ह ॥

मन्त्र उच्चारण
पद पाठ

य:। ते । मद: । अवऽकेश: । विऽकेश: । येन । अभिऽहस्यम् । पुरुषम् । कृणोषि । आरात् । त्वत् । अन्या । वनानि । वृक्षि । त्वम् । शमि । शतऽवल्शा । वि । रोह ॥३०.२॥

अथर्ववेद » काण्ड:6» सूक्त:30» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विद्या के गुणों का उपदेश।

पदार्थान्वयभाषाः - (शमि) हे शान्ति करनेवाली [सरस्वती !] (यः) जो (ते) तेरा (मदः) आनन्द (अवकेशः) शुद्ध प्रकाशवाला और (विकेशः) विविध प्रकाशवाला है, (येन) जिससे (पुरुषम्) पुरुष को (अभिहस्यम्) बड़ा खिलने योग्य (कृणोषि) तू करती है। (त्वत्) तुझ से (अन्या) भिन्न [अविद्यारूप] (वनानि) माँगने के कर्मों को (आरात्) दूर (वृक्षि) मैंने छोड़ दिया है। (त्वम्) तू (शतवल्शा) सैकड़ों अङ्कुर वा शाखावाली होकर (वि) विविध प्रकार से (रोह) प्रकट हो ॥२॥
भावार्थभाषाः - योगी जन विद्या की प्राप्ति से अज्ञान को मिटा करऋतम्भरा बुद्धि द्वारा अनेक सुख पाते हैं ॥२॥
टिप्पणी: २−(यः) (ते) तव (मदः) हर्ष (अवकेशः) केशी केशा रश्मयस्तैस्तद्वान् भवति काशनाद् वा प्रकाशनाद्वा−निरु० १२।२५। शुद्धप्रकाशः (विकेशः) विविधप्रकाशः (येन) मदेन (अभिहस्यम्) हस विकशने−यत्। अभितो हसनीयं विकाशनीयम् (पुरुषम्) (कृणोषि) करोषि (आरात्) दूरे (त्वत्) त्वत्तः (अन्या) अन्यानि। विरुद्धानि। अविद्यारूपाणि (वनानि) वनु याचने−ल्युट्। याचनानि (वृक्षि) वृजी वर्जने−लुङ् अडभावः। छन्दस्युभयथा। पा० ३।४।११७। इति सार्वधातुकत्वात् इटो निषेधः। अवर्जिषि। अहं वर्जितवान् अस्मि (त्वम्) (शमि) अ० ६।११। हे शान्तिकरि सरस्वति (शतवल्शा) वल संवरणे−शक्। बह्वङ्कुरा बहुशाखा सती (वि) विविधम् (रोह) प्रादुर्भव ॥