वांछित मन्त्र चुनें
96 बार पढ़ा गया

पा॒तां नो॑ दे॒वाश्विना॑ शु॒भस्पती॑ उ॒षासा॒नक्तो॒त न॑ उरुष्यताम्। अपां॑ नपा॒दभि॑ह्रुती॒ गय॑स्य चि॒द्देव॑ त्वष्टर्व॒र्धय॑ स॒र्वता॑तये ॥

मन्त्र उच्चारण
पद पाठ

पाताम् । न: । देवा । अश्विना । शुभ: । पती इति । उषासानक्ता । उत । न: ।उरुष्यताम् । अपाम् । नपात् । अभिह्रुती । इत्यभिऽह्रुती । गयस्य । चित् । देव । त्वष्ट: । वर्धय । सर्वऽतातये ॥३.३॥

अथर्ववेद » काण्ड:6» सूक्त:3» पर्यायः:0» मन्त्र:3


पण्डित क्षेमकरणदास त्रिवेदी

वृद्धि करने के लिये उपदेश।

पदार्थान्वयभाषाः - (देवा) व्यवहार में चतुर, (शुभः) शुभ कर्म के (पती) पालन करनेहारे (अश्विना) कर्मों में व्याप्तिवाले माता पिता (नः) हमें (पाताम्) बचावें, (उत) और (उषासानक्ता) दिन और रात (नः) हमें (उरुष्यताम्) बचावें। (अपाम्) हे जीवों के (नपात्) न गिरानेवाले (देव) प्रकाशमान (त्वष्टः) विश्वकर्मा परमेश्वर ! (अभिह्रुती) कुटिल दशा में वर्तमान (गयस्य) घर के (सर्वतातये) सम्पूर्ण सुख के लिये [हमें] (चित्) अवश्य (वर्धय) बढ़ा ॥३॥
भावार्थभाषाः - मनुष्य उत्तम माता पिता से उत्तम शिक्षा पाकर, बल पराक्रम बढ़ाकर, दरिद्रता आदि हटाकर सुखी होवें ॥३॥
टिप्पणी: ३−(पाताम्) रक्षताम् (नः) अस्मान् (देवा) व्यवहारकुशलौ (अश्विना) अ० २।२९।६। कर्मसु व्याप्तिमन्तौ मातापितरौ (शुभः) शुभ दीप्तौ−क्विप्। शोभनस्य कर्मणः। षष्ठ्याः पतिपुत्र०। पा० ८।३।५३। इति विसर्गस्य सत्वम् (पती) पालकौ (उषासानक्ता) अ० ५।१२।६। अहोरात्रे (उत) अपि च (नः) अस्मान् (उरुष्यताम्) उरुष्यती रक्षाकर्मा−निरु० ५।२३। रक्षताम् (अपांनपात्) म० १। हे जीवानां न पातयितः (अभिह्रुती) अभि+ह्वृ कौटिल्ये−क्तिन्, छान्दसं रूपम्। सुपां सुलुक्०। पा० ७।१।२९। इति पूर्वसवर्णत्वात् सप्तम्या ईकारः। ईदूतौ च सप्तम्यर्थे। पा–० १।१।१९। इति प्रगृह्यत्वम्। अभिह्रुतौ सर्वतः कुटिलदशायां वर्तमानस्य (गयस्य) अघ्न्यादयश्च। उ० ४।१˜२। इति गम्लृ−यक् निपातनात् साधुः। गृहस्य−निघ० ३।४। (चित्) एव (देव) हे प्रकाशमान (त्वष्टः) अ० २।५।६। हे विश्वकर्मन् परमात्मन् (वर्धय) अस्मान् समर्धय (सर्वतातये) सर्वदेवात् तातिल्। पा० ४।४।१४२। इति तातिल् स्वार्थे। सर्वस्मै सुखाय ॥