अ॑वैरह॒त्याये॒दमा प॑पत्यात्सुवी॒रता॑या इ॒दमा स॑सद्यात्। परा॑ङे॒व परा॑ वद॒ परा॑ची॒मनु॑ सं॒वत॑म्। यथा॑ य॒मस्य॑ त्वा गृ॒हेऽर॒सं प्र॑ति॒चाक॑शाना॒भूकं॑ प्रति॒चाक॑शान् ॥
अवैरऽहत्याय । इदम्। आ । पपत्यात् । सुऽवीरतायै । इदम् । आ । ससद्यात् । पराङ् । एव । परा । वद। पराचीम् । अनु । सम्ऽवतम् । यथा । यमस्य । त्वा । गृहे । अरसम् । प्रतिऽचाकशान् । आभूकम् । प्रतिऽचाकशान् ॥२९.३॥
पण्डित क्षेमकरणदास त्रिवेदी
शुभ गुण ग्रहण करने का उपदेश।
