वांछित मन्त्र चुनें

ओता॒ आपः॑ कर्म॒ण्या॑ मु॒ञ्चन्त्वि॒तः प्रणी॑तये। स॒द्यः कृ॑ण्व॒न्त्वेत॑वे ॥

मन्त्र उच्चारण
पद पाठ

आऽउता: । आप: । कर्मण्या: । मुञ्चन्तु । इत: । प्रऽनीतये । सद्य: । कृण्वन्तु । एतवे ॥२३.२॥

अथर्ववेद » काण्ड:6» सूक्त:23» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

कर्म करने के लिये उपदेश।

पदार्थान्वयभाषाः - (ओताः) अच्छे प्रकार बुनी हुई (कर्मण्या) कामों में कुशल (आपः) [परमेश्वर की] व्यापक शक्तियाँ [हमें] (इतः) इस [कष्ट] से (प्रणीतये) उत्तम नीति के लिये (मुञ्चन्तु) मुक्त करें। और (सद्यः) तुरन्त (एतवे) चलने को (कृण्वन्तु) बनावें ॥२॥
भावार्थभाषाः - मनुष्य ईश्वरीय रचनाओं को देखकर उत्तम नीति पर चलकर सदा आगे बढ़ें ॥२॥
टिप्पणी: २−(ओताः) आङ्+वेञ् तन्तुसन्ताने−क्त। सम्यक् स्यूताः (आपः) परमेश्वरस्य व्यापिकाः शक्तयः (कर्मण्याः) तत्र साधुः। पा० ४।४।९८। इति कर्मन्−यत्। ये चाभावकर्मणोः। पा० ६।४।१६८। इति प्रकृतिभावः। कर्मसु साधवः (मुञ्चन्तु) मुक्तान् कुर्वन्तु, अस्मान् (इतः) अस्मात् कष्टात् (प्रणीतये) प्रकृष्टनीतिप्राप्तये (सद्यः) शीघ्रम् (कृण्वन्तु) कुर्वन्तु (एतवे) तुमर्थे सेसेन०। पा० ३।४।९। इति इण् गतौ, तवे। गन्तुम् ॥