वांछित मन्त्र चुनें

पय॑स्वतीः कृणुथा॒प ओष॑धीः शि॒वा यदेज॑था मरुतो रुक्मवक्षसः। ऊर्जं॑ च॒ तत्र॑ सुम॒तिं च॑ पिन्वत॒ यत्रा॑ नरो मरुतः सि॒ञ्चथा॒ मधु॑ ॥

मन्त्र उच्चारण
पद पाठ

पयस्वती: । कृणुथ । अप: । ओषधी: । शिवा: । यत् । एजथ । मरुत: । रुक्मऽवक्षस: । ऊर्जम् । च । तत्र । सुऽमतिम् । च । पिन्वत । यत्र । नर: । मरुत: । सिञ्चथ । मधु॥२२.२॥

अथर्ववेद » काण्ड:6» सूक्त:22» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

वृष्टि विद्या का उपदेश।

पदार्थान्वयभाषाः - (रुक्मवक्षसः) हे तेज [बिजुली] को हृदय में रखनेवाले (मरुतः) वायु के वेगो ! (यत्) जब (एजथ) तुम चलते हो, (अपः) जल और (ओषधीः) अन्न आदि ओषधियों को (पयस्वतीः) रसवाली और (शिवाः) कल्याणकारी (कृणुथ) तुम करते हो। (च) और (तत्र) वहाँ (ऊर्जम्) बल देनेवाला अन्न (च) और (सुमतिम्) उत्तम बुद्धि (पिन्वत) बरसाते हो, (यत्र) जहाँ पर (नरः) हे नायक (मरुतः) वायुगणो ! (मधु) जल (सिञ्चथ) सींचते हो ॥२॥
भावार्थभाषाः - जिस प्रकार वायु बिजुली से युक्त मेघ से मिलकर बरसा करता है और अन्न आदि पदार्थ उत्पन्न करता है, उसी प्रकार मनुष्यों को विद्या आदि उत्तम गुण प्राप्त करके आनन्दित होना चाहिये ॥२॥
टिप्पणी: २−(पयस्वतीः) रसवतीः (कृणुथ) कुरुथ (अपः) जलानि (ओषधीः) अन्नादिपदार्थान् (शिवाः) सुखकरीः (यत्) यदा (एजथ) प्रचलथ (मरुतः) अ० १।२०।१। वायुगणाः (रुक्मवक्षसः) युजिरुचितिजां कुश्च। उ० १।१४६। इति रुच दीप्तावभिप्रीतौ च−मक्। पचिवचिभ्यां सुट् च। उ० ४।२२०। इति वच परिभाषणे−असुन्, सुट् च। रुक्मं विद्युद्रूपा दीप्तिर्वक्षसि मध्ये येषां ते (ऊर्जम्) बलकरमन्नम् (च) समुच्चये (तत्र) तस्मिन् देशे (सुमतिम्) शोभनां बुद्धिम् (च) (पिन्वत) पिवि सेचने लडर्थे लोट्। सिञ्चथ (यत्र) यस्मिन् स्थाने (नरः) अ० ३।१६।३। नेतारः (सिञ्चथ) वर्षयथ (मधु) जलम्−निघ० १।१२ ॥