कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति। त आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वीं व्यू॑दुः ॥
पद पाठ
कृष्णम् । निऽयानम् । हरय: । सुऽपर्णा: । अप: । वसाना: । दिवम् । उत् । पतन्ति । ते । आ । अववृत्रन् । सदनात् । ऋतस्य । आत् । इत् । घृतेन । पृथिवीम् । वि । ऊदु: ॥२२.१॥
अथर्ववेद » काण्ड:6» सूक्त:22» पर्यायः:0» मन्त्र:1
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
वृष्टि विद्या का उपदेश।
पदार्थान्वयभाषाः - (हरयः) रस खींचनेवाली, (सुपर्णाः) अच्छा उड़नेवाली किरणें (अपः) जल को (वसानाः) ओढ़ कर (कृष्णम्) खींचनेवाले (नियानम्) नित्य गमनस्थान अन्तरिक्ष में होकर (दिवम्) प्रकाशमय सूर्यमण्डल को (उत् पतन्ति) चढ़ जाती हैं। (ते) वे (इत्) ही (आत्) फिर (ऋतस्य) जल के (सदनात्) घर [सूर्य] से (आ अववृत्रन्) लौट आती हैं, और उन्होंने (घृतेन) जल से (पृथिवीम्) पृथिवी को (वि) विविध प्रकार से (ऊदुः) सींच दिया है ॥१॥
भावार्थभाषाः - जैसे सूर्य की किरणें पवन द्वारा भूमि से जल को खींच कर और फिर बरसा कर उपकार करती हैं, वैसे ही मनुष्य विद्या प्राप्त करके संसार का उपकार करें ॥१॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−म० १ सू० १६४। म० ४७ और निरु० ७।२४। में भी ॥
टिप्पणी: १−(कृष्णम्) आकर्षकम् (नियानम्) नित्यगमनस्थानम् अन्तरिक्षं प्रति। अत्यन्तसंयोगे द्वितीया (हरयः) रसं हरन्तः (सुपर्णाः) आदित्यरश्मयः−निरु० ७।२४। (अपः) जलानि (वसानाः) आच्छादयन्तः (दिवम्) प्रकाशमयं सूर्यमण्डलम् (उत्) उद्गत्य (पतन्ति) प्राप्नुवन्ति (ते) रश्मयः (आ अववृत्रन्) वृतेर्लुङि। द्युद्भ्यो लुङि। पा० १।३।९१। इति परस्मैपदम्, च्लेश्चङ् रुडागमश्च छान्दसः। आ वर्तन्ते। आगच्छन्ति (सदनात्) गृहात्। सूर्यमण्डलात् (ऋतस्य) उदकस्य−निघ० १।१२। (आत्) अनन्तरम् (इत्) एव (घृतेन) उदकेन। घृतमित्युदकनाम जिघर्तेः सिञ्चतिकर्मणः−निरु० ७।२४। (पृथिवीम्) भूमिम् (वि) विविधम् (ऊदुः) उन्दी क्लेदने, लिट्, उपधालोपश्च छान्दसः। उन्दांचक्रुः। सिक्तवन्तः ॥
