वांछित मन्त्र चुनें
167 बार पढ़ा गया

आ यं वि॒शन्तीन्द॑वो॒ वयो॒ न वृ॒क्षमन्ध॑सः। विर॑प्शि॒न्वि मृधो॑ जहि रक्ष॒स्विनीः॑ ॥

मन्त्र उच्चारण
पद पाठ

आ । यम् । विशन्ति । इन्दव: । वय: । न । वृक्षम् । अन्धस: । विऽरप्शिन् । वि । मृध: । जहि । रक्षस्विनी: ॥२.२॥

अथर्ववेद » काण्ड:6» सूक्त:2» पर्यायः:0» मन्त्र:2


पण्डित क्षेमकरणदास त्रिवेदी

परम ऐश्वर्य पाने का उपदेश।

पदार्थान्वयभाषाः - (यम्) जिसमें (इन्दवः) अमृत रस वा ऐश्वर्य (आ) आकर (विशन्ति) प्रवेश करते हैं, (न) जैसे (वयः) पक्षी (अन्धसः) अन्न के (वृक्षम्) वृक्ष में। [वह तू] (विरप्शिन्) हे महागुणी परमेश्वर ! (रक्षस्विनीः) राक्षसों [विघ्नों] से युक्त (मृदः) हिंसाकारिणी सेनाओं [कुवासनाओं] को (वि) विविध प्रकार से (जहि) नाश कर ॥२॥
भावार्थभाषाः - मनुष्य परमेश्वर के उत्तम गुणों और ऐश्वर्य्यों को साक्षात् करके अपनी विघ्नकारक कुवासनाओं को दूर करके पुरुषार्थ करें ॥२॥
टिप्पणी: २−(आ) आगत्य (यम्) इन्द्रम् (विशन्ति) प्रविष्टा भवन्ति (इन्दवः) उन्देरिच्चादेः। उ० १।१२। इति उन्दी क्लेदने−उ प्रत्ययः, उकारस्य इत्वम्। यद्वा, इदि परमैश्वर्ये−उ प्रत्ययः। अमृतरसाः। ऐश्वर्याणि (वयः) वातेर्डिच्च। उ० ४।१३४। इति वा गतौ−इण्, स च डित्। पक्षिणः (न) उपमार्थे (वृक्षम्) (अन्धसः) अदेर्नुम् धश्च। उ० ४।२०६। इति अद भक्षणे−असुन्, दस्य धः। अन्ध इत्यन्ननामाध्यानीयं भवति−निरु० ५।१। अन्नस्य। फलराशेः (विरप्शिन्) अ० ५।२९।१३। हे महागुणिन् (वि) विविधम् (मृदः) अ० १।२१।२। हिंसिकाः सेनाः। कुवासना (जहि) नाशय (रक्षस्विनीः) रक्षोभिर्बाधकैर्विघ्नैरुपेताः ॥