वांछित मन्त्र चुनें

यथा॒ सोम॒ ओष॑धीनामुत्त॒मो ह॒विषां॑ कृ॒तः। त॒लाशा॑ वृ॒क्षाना॑मिवा॒हं भू॑यासमुत्त॒मः ॥

मन्त्र उच्चारण
पद पाठ

यथा । सोम: । ओषधीनाम् । उत्ऽतम: । हविषाम् । कृत: । तलाशा । वृक्षाणाम्ऽइव । अहम् । भूयासम् । उत्ऽतम: ॥१५.३॥

अथर्ववेद » काण्ड:6» सूक्त:15» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

उत्तम गुणों की प्राप्ति का उपदेश।

पदार्थान्वयभाषाः - (यथा) जैसे (सोमः) अमृत [अन्न वा सोम लता] (ओषधीनाम्) तापनाशक ओषधियों और (हविषाम्) ग्राह्य पदार्थों में (उत्तमः) उत्तम (कृतः) बनाया गया है। और (वृक्षाणाम् इव) जैसे उत्तम पदार्थों में (तलाशा) आश्रय प्राप्त करनेवाली लक्ष्मी है, [वैसे ही] (अहम्) मैं (उत्तम) उत्तम (भूयासम्) हो जाऊँ ॥३॥
भावार्थभाषाः - मनुष्य अन्न, सुवर्ण आदि पदार्थ प्राप्त करके उत्तम होवें ॥३॥
टिप्पणी: ३−(यथा) येन प्रकारेण (सोमः) अमृतमन्नं सोमलता वा (ओषधीनाम्) तापनाशकपदार्थानाम् (उत्तमः) श्रेष्ठः (हविषाम्) ग्राह्यवस्तूनाम् (कृतः) निर्मितः (तलाशा) तलमाधारम् अश्नुते। तल+अशू व्याप्तौ−अच्, टाप्। आधारव्यापयित्री लक्ष्मीः (वृक्षाणाम्) वरणीयानां मध्ये (अहम्) (भूयासम्) (उत्तमः) ॥