वांछित मन्त्र चुनें

मध्वा॑ पृञ्चे न॒द्यः पर्व॑ता गि॒रयो॒ मधु॑। मधु॒ परु॑ष्णी॒ शीपा॑ला॒ शमा॒स्ने अ॑स्तु॒ शं हृ॒दे ॥

मन्त्र उच्चारण
पद पाठ

मध्वा । पृञ्चे । नद्य: । पर्वता: । गिरय: । मधु । मधु । परुष्णी । शीपाला । शम् । आस्ने । अस्तु । शम् । हृदे ॥१२.३॥

अथर्ववेद » काण्ड:6» सूक्त:12» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

पाप नाश करने के लिये उपदेश।

पदार्थान्वयभाषाः - (मध्वा) अमृत से [तुझ को] (पृञ्चे) मैं संयुक्त करता हूँ। (नद्यः) नदियाँ, (पर्वताः) पर्वत और (गिरयः) छोटे पहाड़ (मधु) अमृत [होवें]। (परुष्णी) पालन सामर्थ्यवाली, (शीपाला) निद्रा लानेवाली ओषधि (मधु) अमृत [आस्ने] तेरे मुख के लिये (शम्) शान्ति और (हृदे) हृदय के लिये (शम्) शान्ति (अस्तु) होवे ॥३॥
भावार्थभाषाः - मनुष्य सब पदार्थों से विवेकपूर्वक उपकार लेकर आनन्द भोगें ॥३॥
टिप्पणी: ३−(मध्वा) अमृतेन (पृञ्चे) पृची सम्पर्के। संयोजयामि त्वाम् (नद्यः) (पर्वताः) (गिरयः) क्षुद्रशैलाः (मधु) अमृतम् (परुष्णी) अर्तिपॄवपि०। उ० २।११७। इति पॄ पालनपूरणयोः−उसि। लोमादिपामादि०। पा० ५।२।१००। इति परुष्−न मत्वर्थे। गौरादित्वाद् ङीष्। परुष्णी पर्ववती भास्वती कुटिलगामिनी−निरु० ९।२६। परुष्णीम् पालिकां नीतिम्−दयानन्दभाष्ये ऋ० ७।१८।९। पालनवती (शीपाला) शीङो धुक्लक्०। उ० ४।३८। इति शीङ् शयने−वालन्, स च कित् वस्य पः, टाप्। शेते अनया। सुखदायिका यवाद्योषधिः (शम्) शान्तिः (आस्ने) पद्दन्नोमास्०। पा० ६।१।६३। इति आस्यस्य आसन्। आस्याय मुखाय (अस्तु) (हृदे) हृदयाय ॥