वांछित मन्त्र चुनें

स घा॑ नो दे॒वः स॑वि॒ता सा॑विषद॒मृता॑नि॒ भूरि॑। उ॒भे सु॑ष्टु॒ती सु॒गात॑वे ॥

मन्त्र उच्चारण
पद पाठ

स: । घ । न: । देव: । सविता । साविषत् । अमृतानि । भूरि । उभे इति । सुस्तुती इति सुऽस्तुती । सुऽगातवे ॥१.३॥

अथर्ववेद » काण्ड:6» सूक्त:1» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ऐश्वर्य की प्राप्ति के लिये उपदेश।

पदार्थान्वयभाषाः - (सः) वह (घ) ही (देवः) प्रकाशस्वरूप (सविता) सर्वप्रेरक परमेश्वर (उभे) दोनों [प्रातः सायंकालीन] (सुष्टुती) सुन्दर स्तुतियों को (सुगातवे) अच्छे प्रकार गाने के लिये (नः) हमें (भूरि) बहुत से (अमृतानि) अक्षय सुख (साविषत्) देता रहे ॥३॥
भावार्थभाषाः - मनुष्य परमात्मा की सदा स्तुति करते हुए आत्मबल बढ़ाकर अक्षय सुख प्राप्त करें ॥३॥
टिप्पणी: ३−(सः) प्रसिद्धः (घ) सांहितिको दीर्घः। एव (नः) अस्मभ्यम् (देवः) प्रकाशमानः (सविता) सर्वप्रेरयिता (साविषत्) षू प्रेरणे, लेटि अडागमः। सिब्बहुलं णिद् वक्तव्यः। वा० पा० ३।१।३४। इति वृद्धौ सत्यामावादेशः। प्रेरयेत् (अमृतानि) अ० ४।८।३। अक्षयसुखानि (भूरि) भूरीणि। बहूनि (उभे) प्रातःसायंकालीने, तदुपलक्षिते सर्वकाले−इत्यर्थः (सुष्टुती) शोभने स्तुती (सुगातवे) गायतेस्तुमर्थे तवेप्रत्ययः। सुष्ठु गातुम् ॥