वांछित मन्त्र चुनें

सूर्यो॑ मे॒ चक्षु॒र्वातः॑ प्रा॒णो॒न्तरि॑क्षमा॒त्मा पृ॑थि॒वी शरी॑रम्। अ॒स्तृ॒तो नामा॒हम॒यम॑स्मि॒ स आ॒त्मानं॒ नि द॑धे॒ द्यावा॑पृथि॒वीभ्यां॑ गोपी॒थाय॑ ॥

मन्त्र उच्चारण
पद पाठ

सूर्य: । मे । चक्षु: । वात: । प्राण: । अन्तरिक्षम् । आत्मा । पृथिवी । शरीरम् । अस्तृत: । नाम । अहम् । अयम्। अस्मि । स: । आत्मानम् । नि । दधे । द्यावापृथिवीभ्याम् । गोपीथाय ॥९.७॥

अथर्ववेद » काण्ड:5» सूक्त:9» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

N/A

पदार्थान्वयभाषाः - (मे) मेरा (चक्षुः) नेत्र (सूर्यः) सूर्य [के सदृश प्रकाशमान], (प्राणः) प्राण (वातः) वायु [के समान चलनेवाला], (आत्मा) आत्मा (अन्तरिक्षम्) मध्य लोक [के समान मध्यवर्ती], (शरीरम्) शरीर (पृथिवी) पृथिवी [के समान सहनशील] है। (अयम्) यह (अहम्) मैं (अस्तृतः) विना ढका हुआ (नाम) प्रसिद्ध (अस्मि) हूँ। (सः अहम्) वह मैं (आत्मानम्) अपना आत्मा (द्यावा-पृथिवीभ्याम्) सूर्य और पृथिवी को (गोपीथाय) रक्षा [अथवा पृथिवी, इन्द्रिय आदि की रक्षा] के लिये (नि) नित्य (दधे) देता रहता हूँ ॥७॥
भावार्थभाषाः - योगी जन विद्याभ्यास और तपोबल से संसार के सब तत्त्वों से उपकार लेकर संसार की रक्षा करते हैं ॥७॥
टिप्पणी: ७−(सूर्यः) सूर्यवत् प्रकाशनमस्ति (मे) मम (चक्षुः) नेत्रम् (वातः) वायुः। वायुसदृशप्रगमनः (प्राणः) (अन्तरिक्षम्) द्यावापृथिव्योर्मध्ये वर्तमानोऽवकाशतुल्यः (पृथिवी) भूमिवत् सहनशीलम् (शरीरम्) देहः (अस्तृतः) स्तृञ् आच्छादने-क्त। अनाच्छादितः (नाम) प्रसिद्धौ (अयम्) (अस्मि) (सः) सोऽहम् (आत्मानम्) आत्मसामर्थ्यम् (नि) नित्यम् (दधे) ददामि (द्यावापृथिवीभ्याम्) सूर्यभूमिभ्याम्। तदुपलक्षितसर्वलोकाय (गोपीथाय) निशीथगोपीथावगथाः। उ० २।९। इति गुपू रक्षणे-थक् निपातनात् साधुः। रक्षणाय। यद्वा गो+पा रक्षणे-थक्, निपातनादीत्वम्। पृथिवीन्द्रियादीनां रक्षणाय-इति दयानदभाष्ये, ऋ० १।१९।१ ॥