152 बार पढ़ा गया
यथेन्द्र॑ उ॒द्वाच॑नं ल॒ब्ध्वा च॒क्रे अ॑धस्प॒दम्। कृ॒ण्वे॒हमध॑रा॒न्तथा॒मूञ्छ॑श्व॒तीभ्यः॒ समा॑भ्यः ॥
पद पाठ
यथा । इन्द्र: । उत्ऽवाचनम् । लब्ध्वा । चक्रे । अध:ऽपदम् । कृण्वे । अहम् । अधरान् । तथा । अमून् । शश्वतीभ्य: । समाभ्य: ॥८.८॥
अथर्ववेद » काण्ड:5» सूक्त:8» पर्यायः:0» मन्त्र:8
पण्डित क्षेमकरणदास त्रिवेदी
राजा के धर्म का उपदेश।
पदार्थान्वयभाषाः - (यथा) जैसे (इन्द्रः) परम ऐश्वर्यवाले पुरुष ने (उद्वाचनम्) ऊँचे बोलनेवाले, बड़बड़िया शत्रु को (लब्ध्वा) पाकर (अधस्पददम्) पाँव तले (चक्रे) किया है। (तथा) वैसे ही (अहम्) मैं (शश्वतीभ्यः) सनातन (समाभ्यः) प्रजाओं के लिये (अमून्) उन [शत्रुओं] को (अधरान्) नीचे (कृण्वे) करता हूँ ॥८॥
भावार्थभाषाः - मनुष्य पूर्वज शूरवीरों के समान संसार के हित के लिये काम क्रोध आदि शत्रुओं का नाश करे ॥८॥
टिप्पणी: ८−(यथा) येन प्रकारेण (इन्द्रः) परमैश्वर्यवान् पुरुषः (उद्वाचनम्) वच परिभाषणे, णिच्−ल्युट्। उच्चैर्बहुभाषिणम्। वाचालम् (लब्ध्वा) प्राप्य (चक्रे) कृतवान् (अधस्पदम्) पादतले (कृण्वे) करोमि (अहम्) (अधरान्) नीचान् (तथा) तेन प्रकारेण (अमून्) शत्रून् (शश्वतीभ्यः) सनातनीभ्यः (समाभ्यः) प्रजाभ्यः−यथा दयानन्दभाष्ये यजु० ४०।८ ॥
