यद॒साव॒मुतो॑ देवा अदे॒वः संश्चिकी॑र्षति। मा तस्या॒ग्निर्ह॒व्यं वा॑क्षी॒द्धवं॑ दे॒वा अ॑स्य॒ मोप॒ गुर्ममै॒व हव॒मेत॑न ॥
पद पाठ
यत् । असौ । अमुत: । देवा: । अदेव: । सन् । चिकीर्षति । मा । तस्य । अग्नि: । हव्यम् । वाक्षीत् । हवम् । देवा: । अस्य । मा । उप । गु: । मम । एव । हवम् । आ । इतन ॥८.३॥
अथर्ववेद » काण्ड:5» सूक्त:8» पर्यायः:0» मन्त्र:3
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा के धर्म का उपदेश।
पदार्थान्वयभाषाः - (देवाः) हे विजयी पुरुषो ! (असौ) वह (अदेवः सन्) राजद्रोही होकर (अमुतः) उस स्थान से (यत्) जो कुछ [कुमन्त्र] (चिकीर्षति) करना चाहता है। (अग्निः) अग्निसमान तेजस्वी राजा (तस्य=तस्मै) उसको (हव्यम्) अन्न (मा वाक्षीत्) न पहुँचाये। (देवाः) व्यवहारकुशल लोग (अस्य) इस की (हवम्) पुकार को (मा उप गुः) न प्राप्त करें। (मम एव) मेरी ही (हवम्) पुकार को (आ−इतन) तुम आकर प्राप्त होवो ॥३॥
भावार्थभाषाः - राजा और सब विद्वान् लोग राजविद्रोही पुरुष को यथावत् दण्ड देकर प्रजा में शान्ति फैलावें ॥३॥
टिप्पणी: ३−(यत्) यत्किञ्चित्कुमन्त्रम् (असौ) (अमुतः) अमुष्यात्। तस्माद्देशात् (देवाः) हे विजिगीषवः (अदेवः) देवविरोधी। राजविद्रोही (सन्) वर्तमानः सन् (चिकीर्षति) कर्तुमिच्छति (तस्य) चतुर्थ्यां षष्ठी। तस्मै। अदेवाय (अग्निः) अग्निवत्तेजस्वी राजा (हव्यम्) हु अदने−यत्। अन्नम् (मा वाक्षीत्) वह−लुङ्। न प्रापयेत् (हवम्) आह्वानम् (देवाः) व्यवहारिणः (मा उप गुः) नैव प्राप्नुवन्तु (मम) (एव) ही (हवम्) (आ इतन) आ गच्छत ॥
