136 बार पढ़ा गया
यां ते॑ च॒क्रुर्गार्ह॑पत्ये पूर्वा॒ग्नावु॒त दु॒श्चितः॑। शाला॑यां कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
पद पाठ
याम् । ते ।चक्रु: । गार्हऽपत्ये । पूर्वऽअग्नौ । उत । दु:ऽचित: । शालायाम् । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.५॥
अथर्ववेद » काण्ड:5» सूक्त:31» पर्यायः:0» मन्त्र:5
पण्डित क्षेमकरणदास त्रिवेदी
राजा के धर्म का उपदेश।
पदार्थान्वयभाषाः - (याम्) जिस [हिंसा] को (दुश्चितः) बुरा चीतनेवालों ने (ते) तेरे (गार्हपत्ये) गृहस्थ काम में (उत) और (पूर्वाग्नौ) निवास के हेतु अग्नि आदि में (चक्रुः) किया है। अथवा (शालायाम्) शाला में (याम्) जिस (कृत्याम्) हिंसा को... म० १ ॥५॥
भावार्थभाषाः - राजा प्रबन्ध करे कि गृहस्थ लोगों के कामों और पदार्थों में कोई उपद्रव न करे ॥५॥
टिप्पणी: ५−(गार्हपत्ये) गृहपतिना संयुक्ते ञ्यः। पा० ४।४।९०। इति गृहपति−ञ्य गृहपतिना संयुक्ते कर्मणि (पूर्वाग्नौ) पूर्वपूतौ निवासे च−अच्। निवास−हेतौ पावकादौ (उत) अपि (दुश्चितः) दुस्+चिती संज्ञाने−क्विप्। दुष्टचिन्तकाः (शालायाम्) गृहे। अन्यद् गतम् ॥
