यां ते॑ च॒क्रुर॑मू॒लायां॑ वल॒गं वा॑ नरा॒च्याम्। क्षेत्रे॑ ते कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
पद पाठ
याम् । ते । चक्रु: । अमूलायाम् । वलगम् । वा । नराच्याम् । क्षेत्रे । ते । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.४ ॥
अथर्ववेद » काण्ड:5» सूक्त:31» पर्यायः:0» मन्त्र:4
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा के धर्म का उपदेश।
पदार्थान्वयभाषाः - (याम्) जिस [हिंसा] को (बलगम्) गुप्त कर्म से (ते) तेरे (अमूलायाम्) प्राप्ति योग्य (वा) अथवा (नराच्याम्) मनुष्यों से सत्कार योग्य [ओषधि] में (चक्रुः) उन्होंने किया है। अथवा (याम्) जिस (कृत्याम्) हिंसा को (ते) तेरे (क्षेत्रे) ऐश्वर्य के हेतु खेत में... म० १ ॥४॥
भावार्थभाषाः - राजा प्रबन्ध करे कि औषधि आदि पदार्थ दूषित न होवें ॥४॥
टिप्पणी: ४−(अमूलायाम्) खर्जिपिञ्चादिभ्य ऊरोलचौ। उ० ४।९०। इति अम गतौ भोजने−ऊलच्, टाप्। प्रापणीयायाम् (वलगम्) मुदिग्रोर्गग्गौ। उ० १।१२८। इति वल संवरणे−ग प्रत्ययः, अकारागमः, तृतीयास्थाने प्रथमा। संवरणेन। आच्छादनेन (वा) (नराच्याम्) नर+अञ्चु गतिपूजनयोः−क्विन्, ङीप्। नरैः पूजनीयायाम् ओषध्याम् (क्षेत्रे) ऐश्वर्यहेतौ शस्याद्युत्पत्तिस्थाने। अन्यद् गतम् ॥
