यां ते॑ च॒क्रुः कृ॑क॒वाका॑व॒जे वा॒ यां कु॑री॒रिणि॑। अव्यां॑ ते कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
पद पाठ
याम् । ते । चक्रु: । कृकवाकौ । अजे । वा । याम् । कुरीरिणि । अव्याम् । ते । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.२॥
अथर्ववेद » काण्ड:5» सूक्त:31» पर्यायः:0» मन्त्र:2
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा के धर्म का उपदेश।
पदार्थान्वयभाषाः - (याम्) जिस [हिंसा] को (ते) तेरे (कृकवाकौ) गले से बोलनेवाले कुक्कुट वा मोर पर (वा) अथवा (याम्) जिसको (कुरीरिणि) केशवाले (अजे) बकरे पर (चक्रुः) उन्होंने [शत्रुओं ने] किया है वा (याम्) जिस (कृत्याम्) हिंसा को (ते) तेरी (अव्याम्) भेड़ी पर... म० १ ॥२॥
भावार्थभाषाः - राजा उपकारी पक्षियों और चौपायों की रक्षा करे ॥२॥
टिप्पणी: २−(कृकवाकौ) कृके वचः कश्च। उ० १।६। इति कृक+वच परिभाषणे−ञुण्। कृकेण गलेन वक्तीति तस्मिन् कुक्कुटे मयूरे वा (अजे) गतिशीले छागे (वा) अथवा (कुरीरिणि) कृञ उच्च। उ० ४।३३। इति कृञ् करणे−ईरन्, तत इनि। कुरीराः केशाः, तद्वति, यथा सायणभाष्ये, अ० ६।१३८।२। (अव्याम्) मेष्याम्। अन्यद् गतम्। म० १ ॥
