वांछित मन्त्र चुनें

अनु॑हूतः॒ पुन॒रेहि॑ वि॒द्वानु॒दय॑नं प॒थः। आ॒रोह॑णमा॒क्रम॑णं॒ जीव॑तोजीव॒तोऽय॑नम् ॥

मन्त्र उच्चारण
पद पाठ

अनुऽहूत: । पुन: । आ । इहि । विद्वान् । उत्ऽअयनम् । पथ: । आऽरोहणम् । आऽक्रमणम् । जीवत:ऽजीवत: । अयनम् ॥३०.७॥

अथर्ववेद » काण्ड:5» सूक्त:30» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आत्मा के उन्नति का उपदेश।

पदार्थान्वयभाषाः - (पथः) मार्ग के (उदयनम्) चढ़ाव को (विद्वान्) जानता हुआ, (अनुहूतः) प्रीति से बुलाया गया तू (पुनः) फिर (आ इहि) आ। (आरोहणम्) चढ़ना और (आक्रमणम्) आगे बढ़ना (जीवतोजीवतः) प्रत्येक जीव का (अयनम्) मार्ग है ॥७॥
भावार्थभाषाः - मनुष्य उन्नति के उपायों को जानकर सदा बढ़ता रहे जैसे कि चिउंटी आदि छोटे जीव भी ऊँचे चढ़ने में लगे रहते हैं ॥७॥
टिप्पणी: ७−(अनुहूतः) पुरुषार्थित्वात् प्रीत्या हूतः (पुनः) उत्साहं कृत्वा−इत्यर्थः (आ इहि) आगच्छ (विद्वान्) जानन् (उदयनम्) उद्गमनम् (पथः) मार्गस्य (आरोहणम्) ऊर्ध्वगमनम् (आक्रमणम्) अधिगमनन्। अतिक्रमः (जीवतोजीवतः) जीव प्राणधारणे−शतृ। सर्वस्य प्राणिनः (अयनम्) गतिः। मार्गः ॥