वांछित मन्त्र चुनें
163 बार पढ़ा गया

यत्ते॑ मा॒ता यत्ते॑ पि॒ता जा॒मिर्भ्राता॑ च॒ सर्ज॑तः। प्र॒त्यक्से॑वस्व भेष॒जं ज॒रद॑ष्टिं कृणोमि त्वा ॥

मन्त्र उच्चारण
पद पाठ

यत् । ते । माता । यत् । ते । पिता । जामि: । भ्राता । च । सर्जत: । प्रत्यक् । सेवस्व । भेषजम् । जरत्ऽअष्टिम् । कृणोमि। त्वा ॥३०.५॥

अथर्ववेद » काण्ड:5» सूक्त:30» पर्यायः:0» मन्त्र:5


पण्डित क्षेमकरणदास त्रिवेदी

आत्मा के उन्नति का उपदेश।

पदार्थान्वयभाषाः - (यत्) जो [औषध] (ते) तेरे (माता) माता (पिता) पिता (च) और (यत्) जो (ते) तेरे (जामिः) मिलकर भोजन करनेवाली बहिन और (भ्राता) पोषक वा पोषणीय भाई (सर्जतः) लाते हैं। (भेषजम्) उस औषध को (प्रत्यक्) प्रत्यक्ष (सेवस्व) सेवन कर, (त्वा) तुझ को (जरदष्टिम्) स्तुति के साथ व्याप्ति वा भोजनवाला (कृणोमि) मैं करता हूँ ॥५॥
भावार्थभाषाः - मनुष्य माता पिता, बहिन भाइयों से उत्तम शिक्षा पाकर उत्तम जीवन बनावें ॥५॥
टिप्पणी: ५−(यत्) भेषजम् (ते) तव (माता) जननी (यत्) (ते) (पिता) जनकः (जामिः) अ० १।४।१। संगत्य भोजनशीला। भगिनी (भ्राता) अ० ४।४।५। भरणशीलो भरणीये वा। सहोदरः। (च) (सर्जतः) सर्ज अर्जने−लट्। अर्जयतः। प्रापयतः (प्रत्यक्) प्रत्यक्षम् (सेवस्व) संभज (भेषजम्) अ० १।४।४। औषधम् (जरदष्टिम्) अ० २।२८।५। जरता स्तुत्या सह अष्टिः कार्यव्याप्तिर्भोजनं वा यस्य तम्। तथाविधम् (कृणोमि) करोमि (त्वा) त्वाम् ॥