वांछित मन्त्र चुनें

ऐतु॑ प्रा॒ण ऐतु॒ मन॒ ऐतु॒ चक्षु॒रथो॒ बल॑म्। शरी॑रमस्य॒ सम्वि॑दां॒ तत्प॒द्भ्यां प्रति॑ तिष्ठतु ॥

मन्त्र उच्चारण
पद पाठ

आ । एतु । प्राण: । आ । एतु । मन: । आ । एतु । चक्षु: । अथो इति । बलम् । शरीरम् । अस्य । सम् । विदाम् । तत् । पत्ऽभ्याम् । प्रति । तिष्ठतु ॥३०.१३॥

अथर्ववेद » काण्ड:5» सूक्त:30» पर्यायः:0» मन्त्र:13


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आत्मा के उन्नति का उपदेश।

पदार्थान्वयभाषाः - (प्राणः) प्राण, पुरुषार्थ [इसमें] (आ एतु) आवे, (मनः) मन (आ एतु) आवे, (अथो) और भी (चक्षुः) दृष्टि और (बलम्) बल (आ एतु) आवे। (तत्) उससे (अस्य) इस पुरुष का (शरीरम्) शरीर (विदां प्रति) बुद्धि की ओर (पद्भ्याम्) दोनों पैरों से (सम्) ठीक-ठीक (तिष्ठतु) खड़ा होवे ॥१३॥
भावार्थभाषाः - मनुष्य आत्मिक और शारीरिक बल प्राप्त करके और चेतन्य रहकर पुरुषार्थ करे ॥१३॥
टिप्पणी: १३−(आ एतु) आगच्छतु (प्राणः) जीवनसामर्थ्यम् (मनः) मनोबलम् (आ एतु) (चक्षुः) दृष्टिः (अथो) अपि च (बलम्) शक्तिः (शरीरम्) देहः (अस्य) पुरुषस्य (सम्) सम्यक् (विदाम्) षिद्भिदादिभ्योऽङ्। पा० ३।३।१०४। इति विद ज्ञाने−अङ्, टाप्। बुद्धिम् (तत्) ततः पुरुषार्थात् (पद्भ्याम्) (प्रति) व्याप्य (तिष्ठतु) स्थितं समर्थं भवतु ॥