वांछित मन्त्र चुनें

उ॑रु॒व्यचा॑ नो महि॒षः शर्म॑ यच्छत्व॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षु। स नः॑ प्र॒जायै॑ हर्यश्व मृ॒डेन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ॥

मन्त्र उच्चारण
पद पाठ

उरुऽव्यचा: । न: । महिष: । शर्म । यच्छतु । अस्मिन् । हवे । पुरुऽहूत: पुरुऽक्षु । स: ।न:। प्रऽजायै । हरिऽअश्व । मृड । इन्द्र । मा । न: । रिरिष:। मा । परा । दा: ॥३.८॥

अथर्ववेद » काण्ड:5» सूक्त:3» पर्यायः:0» मन्त्र:8


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

रक्षा के उपाय का उपदेश।

पदार्थान्वयभाषाः - (उरुव्यचाः) बड़ी व्याप्तिवाला, (महिषः) पूज्य, (पुरुहूतः) अत्यन्त करके पुकारा गया परमेश्वर (अस्मिन् हवे) इस आवाहन में (नः) हमें (पुरुक्षु) बहुत अन्नों से युक्त (शर्म) घर (यच्छतु) देवे। (सः) सो तू (हर्यश्व) हे आकर्षण विकर्षण से व्यापक (इन्द्र) परमेश्वर ! (नः) हमारी (प्रजायै) प्रजा के लिये (मृड) सुखी हो, (नः) हमें (मा रिरिषः) मत दुःख दे और (मा परा दाः) मत त्याग कर ॥८॥
भावार्थभाषाः - मनुष्य परमेश्वर की उपासना करके प्रयत्नपूर्वक अन्न आदि पदार्थों का संग्रह करें, जिससे प्रजा लोग सदा प्रसन्न रहें और कभी दुःख न पावें ॥८॥
टिप्पणी: ८−(उरुव्यचाः) अञ्चु गतौ−असुन्। विस्तीर्णव्यापनः (नः) अस्मभ्यम् (महिषः) अ० २।३५।४। पूजनीयः। महान् (शर्म) गृहम्−निघ० ३।४। (यच्छतु) ददातु (अस्मिन्) (हवे) आह्वाने (पुरुहूतः) बहुप्रकारेणाहूतः (पुरुक्षु) आङ्परयोः खनिशॄभ्यां डिच्च। उ० १।३३। इति टुक्षु शब्दे, यद्वा क्षि निवासगत्योः−कु, स च डित्। क्षु=अन्नम्−निघ० २।७। बह्वन्नयुक्तम् (सः) सः त्वम् (नः) अस्माकम् (प्रजायै) प्रजाहिताय (हर्यश्व) हृपिषिरुहि० उ० ४।११९। इति हृञ् हरणे−इन्। हरणं प्रापणं स्वीकारः स्तेयं नाशनं च। अशूप्रुषिलटि०। उ० १।१५१। इति अशू व्याप्तौ−क्वन्। हरी इन्द्रस्य निघ० २।१५। [उपयोजनानि साहचर्यज्ञानस्य−निरु० २।२८] हे हरिभ्यामाकर्षणविकर्षणाभ्यां व्यापनशील (मृड) सुखी भव (इन्द्र) परमेश्वर (नः) अस्मान् (मा रीरिषः) रिष हिंसायां लुङि छान्दसं रूपम्। मा हिंसीः (मा परा दाः) डुदाञ् दाने−लुङ्। परादानं परित्यागः। मा परित्याक्षीः ॥