वांछित मन्त्र चुनें
183 बार पढ़ा गया

मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः। ममा॒न्तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामा॑या॒स्मै ॥

मन्त्र उच्चारण
पद पाठ

मम । देवा: । विऽहवे । सन्तु । सर्वे । इन्द्रऽवन्त: । मरुत: । विष्णु: । अग्नि: । मम । अन्तरिक्षम् । उरुऽलोकम् । अस्तु । मह्यम् । वात: । पवताम् । कामाय । अस्मै ॥३.३॥

अथर्ववेद » काण्ड:5» सूक्त:3» पर्यायः:0» मन्त्र:3


पण्डित क्षेमकरणदास त्रिवेदी

रक्षा के उपाय का उपदेश।

पदार्थान्वयभाषाः - (सर्वे) सब (देवाः) चाहने योग्य गुण (विहवेः) संग्राम में (मम) मेरे (सन्तु) हों, और (इन्द्रवन्तः) ऐश्वर्ययुक्त (मरुतः) शूर देवता गण और (विष्णुः) व्यापक सूर्य और (अग्निः) अग्नि [भी मेरे हों]। (उरुलोकम्) विस्तीर्ण लोकोंवाला (अन्तरिक्षम्) आकाश (मम) मेरा (अस्तु) होवे, (अस्मै कामाय) इस कामना के लिये (वातः) पवन (मह्यम्) मेरे हित (पवताम्) शुद्ध चले ॥३॥
भावार्थभाषाः - पुरुषार्थी मनुष्य सब उपकारी लोगों, सूर्य, अग्नि और वायु आदि पदार्थों से उपकार लेकर अपनी उन्नति करता हुआ संसार भर में बढ़ता चले ॥३॥
टिप्पणी: ३−(मम) (देवाः) कमनीया गुणाः (विहवे) म० १ संग्रामे (सन्तु) भवन्तु (सर्वे) सकलाः (इन्द्रवन्तः) ऐश्वर्यवन्तः (मरुतः) अ० १।२०।१। शूराः (विष्णुः) व्यापकः सूर्यः (मम) (अन्तरिक्षम्) अ० १।३०।३। आकाशम्। अवकाशः (उरुलोकम्) लोकृ दर्शने−घञ्। विस्तीर्णलोकैर्युक्तम् (अस्तु) (मह्यम्) मदर्थम् (वातः) वायुः (पवताम्) शुद्धो गच्छतु (कामाय) इष्टसिद्धये (अस्मै) निर्दिष्टाय ॥